________________
२६६
व्यवहारसूत्रे
चतुर्दशवर्षपर्यायमधिकृत्याह - 'चउदसवास परियायस्स समणस्स' इत्यादि । सूत्रम् - चउदसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ सुमिणभावणा णाम अज्झयणं उद्दिसित्तए || सू० ३१ ॥
छाया - चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते स्वप्नभावना नामाध्ययनमुद्देष्टुम् || स्० ३१ ॥
"
भाष्यम् – 'चउदसवासपरियायस्स' चतुर्दशवर्षदीक्षापर्यायस्य-यस्य श्रमणस्य दीक्षापर्यायो-दीक्षाग्रहणकालः चतुर्दशवर्षात्मको व्यतीतः तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पइ' कल्पते 'सुमिणभावणा णामं अज्झयणं' स्वप्नभावनामाध्ययनम् । यस्मि - न्नध्ययने सामान्यतः त्रिंशत् स्वप्नाः विशेषतो द्वा चत्वारिंशत् स्वप्नाः प्रतिपादिताः कीदृशस्य स्वप्नस्य कीदृशं शुभमशुभं वा फलं भवति एतत्प्रतिपादकमध्ययनं स्वप्नभावनाध्ययनम् इति कथ्यते । तादृशं स्वप्नभावनानामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुमध्यापयितुं कल्पते इति ।
अयं भावः - यदा खलु मनो निद्रावस्थायां हृदयेऽवस्थितं भवति तदा दृष्टश्रुतान् अर्थात् पश्यति स स्वप्नः कारणभेदात् त्रिप्रकारको भवति, रोगबलात् वासनाबलात्, अदृष्टबलाच्च । तत्र-रोगस्त्रिविधः पैत्तिको वातिकः प्लैष्मिकश्च । तत्र - ज्वरादिरोगाक्रान्तः स्वप्नेऽग्निदाहादिकं पश्यति । वातरोगाक्रान्तो रात्रौ --आकाशगमनादिकं पश्यति, श्लैष्मिकरोगपीडितस्तु जलसंतरणादिकं पश्यति, सोऽयं स्वप्नो रोगजनितः कथ्यते । वासनाजनितस्तु स यो वासनया समुत्पद्यते, तत्र-वासनादिवसे दृष्टस्य श्रुतस्य वा विषयजातस्य संस्कारवशाद् रात्रौ शयानः तमेव पदार्थजातं पश्यति यः स तादृशः । इमौ द्वावपि स्वप्नौ न फलदायकौ भवतो वासनाजनितः स्वप्नः कथ्यते ।
तृतीयस्तु -- अदृष्टजनित: - भाग्यजनितः स शुभमशुभ वा फलं ददाति । तत्राऽदृष्टजनिताः सामान्यत त्रिंशत् स्वप्नाः विशेषतो द्वाचत्वारिंशत् स्वप्नाः, सङ्कलनया द्वासप्ततिसंख्यका भवन्ति । तदुक्तममुकस्वप्नस्य फलम्
" यदा कर्मसु काम्येषु, स्त्रियं पश्यति पुरुषः ।
भरिष्टं तत्र जानीयात् तस्मिन्स्वप्ननिदर्शने ॥ १ ॥
इत्यादिना शुभाशुभफलसूचकत्वं स्वप्नस्य दर्शितम् । स्वप्ने खररोहणादीनि जघन्यानि वस्तूनि पश्यन्ति, तेन 'अशुभफलसूचनं भवति । विशेषतस्तु - स्वप्नाध्यायादेव द्रष्टव्यम् ॥ सू० ३१ ॥ पञ्चदशवर्षपर्यायमधिकृत्याऽऽह--'पन्नरसवासपरियायस्स' इत्यादि ।
सूत्रम् - पन्नरसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ चारणभावणा णामं अज्झयणं उद्दिसित्तए || सू० ३२ ॥