________________
भाष्यम् उ०१० स० ३०-३१
दीक्षापर्यायक्रमेण सूत्राध्यापनविधिः २६५
एतन्नामकमध्ययनम् । 'वेसमणोववाए' वैश्रमणोपपातः-एतन्नामकोऽध्ययनविशेषः । तथा'वेलंधरोववाए नाम अज्झयणं' वेलंधरोपपातो नामाध्ययनम् 'उद्दिसित्तए' उद्देष्टुं-वाचयितुमध्यापयितुमित्यर्थः ।
एतेषामरुणोपपातादिनामाऽध्ययनानामधिष्ठातारस्तत्तदध्ययनसदृशनामानोऽरुणादयो देवाः सन्ति तानरुणादिदेवान् हृदये संप्रधार्य ये श्रमणा यदा अरुणोपपातादिकानि अध्ययनानि परावर्त्तन्ते तदा तेषामन्तिके स्वकीयस्वकीयाऽध्ययनपरावर्तनाऽनुगृहीतास्ते देवा भञ्जलिमुकुलितहस्ता दशाऽपि दिश उद्योतयन्तः प्रादुर्भवन्ति, प्रादुर्भूय च किङ्करभृताः सन्तोऽध्ययनपरावर्तकान् पर्युपासते, वेलन्धरा धरणा वरुणाश्च देवाः वेलन्धरोपपातादिपाठकानामन्तिके गन्धोदकादि वर्षा वर्षन्ति, तथा-अरुणा गरुडा वैश्रमणाश्च देवा अरुणोपपातादिकाऽऽध्ययनपरावर्त्तनेनाऽऽवर्जिताः सन्तः तत्तदन्तिकमुपागत्य सुवर्णरजतादीनां वृष्टि कुर्वाणा दासवद् उपासते ब्रुवते च हे श्रमणाः ! आदिशत किं कुर्मो वयमिति ॥ सू० २९॥
अथ-त्रयोदशवर्षपर्यायमधिकृत्याह--'तेरसवासपरियायस्स' इत्यादि ।
सूत्रम्- तेरसवासपरियायरस समणस्स णिग्गंथस्स कप्पइ उठाणसुए समुहाणमुए देविंदोववाए णागपरियावणिया नामं अज्झयणं उद्दिसित्तए ॥ सू० ३० ॥
छाया-त्रयोदशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते, उत्थानश्रुतं समुत्थानश्रुतं देवेन्द्रोपपातो नागपर्यापनिका नामाध्ययनमुद्देष्टुम् ॥ सू० ३० ॥
. भाष्यम्-'तेरसवासपरियायस्स' त्रयोदशवर्षपर्यायस्य-यस्य दीक्षापर्यायस्त्रयोदशवर्षात्मकः कालो व्यतीतस्तादृशस्य, 'समणरस णिग्गंथस्स' श्रमणस्य निम्रन्थस्य 'कप्पइ' कल्पते, 'उहाणसुए' उत्थानश्रुतम् - एतन्नामकमध्ययनम् । तथा-'समुत्थानमुए' समुत्थानश्रुतम्-एतन्ना-, मकमध्ययनम् । तथा 'देविंदोववाए' देवेन्द्रोपपातः-देवेन्द्रोपपातकनामकमध्ययनम् । 'नागपरियावणिया नाम अज्झयणं' नागपर्यापनिकानामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुम्, त्रयोदशवर्षपर्यायस्य श्रमणस्य उत्थानश्रुतादिनामकानि-अध्ययनानि अध्यापयितुं कल्पते ॥
एतेषामध्ययनानामयमतिशयः- त्रयोदशवर्षपर्यायः श्रमणो निग्रन्थो यत्र स्थानविशेषे सुचेतसा मनःप्रणिधानपूर्वकम् उत्थानश्रुतं परावर्तयति तत्रैव स्थानविशेपे कुलग्रामदेशा उत्तिष्ठन्ति उदशीभवन्ति, तदनन्तरं कार्ये निष्पन्ने सति समुत्थानश्रुते परावर्त्यमाने पुनरपि ते कुलग्रामदेशा स्वस्थीभूय निवसन्ति । एवमुपर्युक्तप्रकारेण स्वनामसदृशदेवेन्द्रोपपात इति देवेन्द्रपर्यापनिका-नागपर्यापनिकाऽध्ययनात् देवेन्द्रा नागदेवाश्च स्वस्वाध्ययनाध्येतृणां समीपे समागच्छन्ति, समागत्य च किङ्करवत् तान् पर्युपासते, एष एवातिशय उत्थानादिश्रुतानाम् ॥ सू० ३० ॥