________________
व्यवहारसूत्रे
२६४
जायते तेन कारणेन अष्टवर्षपर्यायस्य स्थानाङ्गं समवायानं चेति सूत्रद्वयस्याऽव्ययनमष्टमनवमेतिवर्षद्वये करोति एतत्सूत्रद्वयस्य द्वादशानामपि, अङ्गानां मध्ये प्रायेण महर्द्धिकत्वात् ॥ सू० २६ ॥ ततस्ताभ्यां परिकर्मितमतेर्दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिरुद्दिश्यते । इति
सूत्रपञ्चकाशयः ॥ सू० २७ ॥
अथैकादशवर्षपर्यायं श्रमण निर्ग्रन्थमधिकृत्य सूत्रमाह- 'एक्कारसवासपरियायस्स' इत्यादि । सूत्रम् --एक्कारसवासपरियायस्स समणस्स णिग्गंथस कप्पइ खुड्डियाविमाण पविभत्ती महल्लियात्रिमाणपविभत्ती अंगचूलिया वंगचूलिया विवाहचूलिया नामं अज्झयणं उद्दित्तिए | सू० २८ ॥
छाया - एकादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते क्षुल्लिकाविमानप्रविविमानप्रविभक्तिरचूलिकवर्गचूलिका विवाहचूलिका नामाऽध्ययन
भक्तिर्महती मुद्देष्टुम् ॥ २८ ॥
भाष्यम् – 'एक्कारसवासपरियायस्स' एकादशवर्षदीक्षापर्यायस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पड़' कल्पते खुडियाविमाणपविभत्ती' क्षुल्लिकाविमानप्रविभक्ति, यत्रकल्पेषु विमाना वर्ण्यन्ते, 'महल्लियाविमाणपविभत्ती' महती विमानप्रविभक्तिः, यत्र कल्पेषु विमानान्येव विस्तारपूर्वकं प्रतिपाद्यन्ते, 'अंगचूलिया' अङ्गचूलिका, तत्राऽङ्गानाम् उपासकदशाप्रभृतीनां पञ्चानां चूलिका निरयावलिका इत्यङ्गचूलिका | 'वंगचूलिया' वर्गचूलिका महाकल्पश्रुतस्य चूलिका वर्गचूलिका | 'विवाहचूलिया' विवाहचूलिका - व्याख्याप्रज्ञप्तेश्चूलिका 'नामं अज्झयणं' एतन्नामकमध्ययनं शास्त्रम् 'उद्दिसित्तए' उद्देष्टुमध्यापयितुम् ॥ सू० २८ ॥
द्वादशवर्षपर्यायमाश्रित्याह--' वारसवासपरियायस्स' इत्यादि ।
सूत्रम् — 'बारसवासपरियायस्स समणस्स णिग्गंथस्स कप्पइ अरुणोववाए गरुलोaare वरुणोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए नाम अज्झयणं उद्दिसित्तए | सू० २९ ॥
छाया - द्वादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते अरुणोपपातो गरुडोपपातो वरुणोपपातो धरणोपपातो वैश्रमणोपपातो वेलंधरोपपातो नामाध्ययन मुद्देष्टुम् ॥ सू० २९ ॥ भाष्यम् – ' वारसवासपरियायस्स' द्वादशवर्षपर्यायस्य यस्य साधोर्दीक्षापर्यायो द्वादशवर्षात्मको व्यतीतः, येन द्वादशवर्षपर्यन्तं श्रामण्यं पालितं तस्य तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पड़' कल्पते 'अरुणोववाए' अरुणोपपातः - अरुणोपपातनामकमध्ययनम्, अत्र 'नामं अज्झयणं' इति प्रतिपदे संयोज्यम् । 'गरुलोववाए' गरुडोपपातः - गरुडोपपातनामकमध्यनम् । ‘वरुणोववाए' वरुणोपपातः - एतन्नामकमध्ययनम् । 'धरणोववाए' धरणोपपातः