SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २६८ व्यवहारत्रे समुत्पद्यते । अथवा यैराचरणैराशीविपत्वेन कर्म बध्यते तेषामाचरणानामुपवर्णनमत्राऽऽशीविघभावनाध्ययने समुपलभ्यते । एष एवास्त्यतिशयः ।। सू० ३४ ॥ अष्टादशवर्षपर्यायमाश्रित्याऽऽह-'अट्ठारसवासपरियायस्स' इत्यादि । सूत्रम्-'अट्ठारसवासपरियायस्स समणस्स णिग्गयस्स कप्पइ दिहिविसभावणाणाम अज्झयणं उदिसित्तए ॥ सू० २५ ॥ छाया-अष्टादशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते दृष्टिविषभावनामाध्य. यनमुद्देष्टुम् ।। सू० ३५ ॥ भाष्यम् --- 'अट्ठारसवासपरियायस्स' अष्टादशवर्षपर्यायस्य, यस्य दीक्षाकालोऽष्टादश'वर्षात्मको व्यतीतः सोऽष्टादशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य कप्पई' कल्पते, 'दिहि विसभावणा णाम अज्झयणं' दृष्टिविषभावनानामाऽध्ययनम् 'उद्दिसित्तए' उष्टुम् । अस्याध्ययनस्याध्येतुर्दृष्टिविषनाम्नी लब्धिः प्रादुर्भवति, तत्प्रभावादस्य श्रमणस्य दृष्टया विषमुपशाम्यति । अथवा यै समाचरणैर्मनुष्यो दृष्टिविषतया कर्म वध्नातीत्यत्र तवर्णनमुपलभ्यते ॥ सू० ३५ ॥ अथकोनविंशतिवर्षपर्यायसूत्रमाह- 'एगूणवीसवासपरियायस्स' इत्यादि । सूत्रम्--एगूणवीसबासपरियायस्स समणस्स णिग्गंथस्स कप्पइ दिहिवायं नामे अंगे उद्दिसित्तए ॥ सू० ३६॥ छाया-एकोनविंशतिवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते दृष्टिवादं नामाङ्गमुद्देष्टुम् ॥ सू० ३६ ॥ भाष्यम् –'एगूणवीसवासपरियायस्स' एकोनविशतिवर्षपर्यायस्य, यस्य साधोः दीक्षापर्याय एकोनविंशतिवर्षप्रमाणो व्यतीतो भवेत् स एकोनविंशतिवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते 'दिदिवाय नामे अंगे उहिसिता दृष्टिवादं नामाझं दृष्टिवादाख्यं द्वादशमद्गम् उद्देष्टुम् अध्यापयितुम् । यो हि श्रमण एकोनविंशति वर्षप्रमाणकदीक्षापर्याय. स दृष्टिवादनामकमगमध्येतुं शक्नोति, एतावद्वर्षदीक्षापर्यायस्यैव दृष्टिवादाध्ययनयोग्यताया भगवता प्रतिपादितत्वात् ।। सू० ३६ ॥ पूर्व दृष्टिवादाङ्गपर्यन्तश्रुतानामुद्देशनयोग्यता प्रदर्शिता, ततः परं श्रमणः कीदृशी योग्यतां प्राप्नोतीति प्रदर्शयन्नाह-वीसइवासपरियाए' इत्यादि ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy