________________
२५८
व्यवहारसूत्रे
भाष्यम् – 'तो' तिस्रः-त्रिप्रकारिकाः 'थेरभूमीओ पन्नत्ताओ' स्थविरभूमयः प्रज्ञप्ताः तत्र-भूमिः स्थानं काल इत्येकार्थः तेनायमर्थः- स्थविरस्य भूमि.-अवस्थारूपः कालः, तास्तिनः प्रज्ञप्ताः, ता एवाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'जाइरे' जातिस्थविरः, 'सुयथेरे' श्रुतस्थविरः, 'परियायथेरे य' पर्यायस्थविरश्च । तत्रैषां त्रयाणां स्थविराणां व्याख्यानं सूत्रकारः स्वयं करोति- सहिवासजाए' इत्यादि, 'सटिवासजाए' पष्टिवर्षजातः-जन्मतः षष्ठिवर्षायुष्कः साधु 'जाइथेरे' जातिस्थविरः कथ्यते १ 'ठाणसमवायघरे सुयधरे स्थानसमवायधरः-स्थानानसमवायाङ्गधरः श्रुतस्थविरः प्रोच्यते २ । 'चीसवासपरियाए परियायथेरे' विंशतिवर्षपर्यायः- विंशतिवर्षदीक्षापर्यायवान् पर्यायस्थविर उच्यते ३ इति ।
एषां त्रयाणामपि स्थविराणां सत्कारसम्मानादिपूर्वकं तद्योग्यं वैयावृत्त्यमन्यसाधुभिः कर्त्तव्यम्, तथाहि- यो हि जातिस्थविरः पष्टिवर्षजातः, तस्य स्थविरस्य देश-काल- स्वभावानुमताहारपानीयादितव्यः । उपधिर्यावता संस्तरति तावत्प्रमाणको दातव्यः । तथा-शय्यावसतिरनुकूला दातव्या । संस्तारको मृदुको देयः । तथा क्षेत्रान्तरगमनसमये जातिस्थविरस्योपथ्यादिकमन्ये वहन्तीति जातिस्थविरस्य वैयावृत्तिप्रकारः १ ।
___ तथा—श्रुतस्थविरस्य श्रतेन तपसा, वृद्धस्य कृतिकर्म-वन्दनादिकं कर्त्तव्यम्, तस्य छन्दतो ऽनुवर्त्तनं कर्त्तव्यम् । एवमागतस्य श्रुतस्थविरस्याऽभ्युत्थानमभिवादनं पादप्रमार्जनादिकं कर्त्तव्यम् । तद्योग्यमाहारादिकमानीय समर्पणीयम् । तदीयगुणानां प्रशंसनं कर्त्तव्यम् । यत्र श्रुतस्थविर उपविष्टो भवेत् तत्र तदपेक्षया नीचैः शय्यायामुपवेष्टव्यम् । तस्याऽऽज्ञा सर्वदा परिपालनीया । एवंप्रकारेण श्रुतस्थविरस्य संमानपूर्वक वैयावृत्त्यं विधेयमिति श्रुतस्थविरस्य वैयावृत्त्यप्रकारः २ । तथा पर्यायस्थविरस्य अप्रव्राजकस्यापि वाचनामदातुरपि आगच्छतोऽभ्युत्थानादिकं सहर्ष कर्त्तव्यम् । योग्यमाहारादिकमानीय तस्मै समर्पणीयमिति पर्यायस्थविरस्य वैयावृत्त्यप्रकार इति ॥ सू०१७ ॥
पूर्व तिनः स्थविरभूमयः प्रदर्शिताः, स्थविराणां वैयावृत्त्यादिकं शैक्ष एव कर्तुमर्हतीति शैक्षसूत्रमाह-अथवा स्थविरपक्षाः शैक्षा इति स्थविरसूत्रानन्तरं शैक्षसूत्रमाह--'तो' इत्यादि ।
सूत्रम्--'तो सेहभूमीओ पन्नत्ताओ, तंजहा-सतराइंदिया, चाउम्मासिया, छम्मासिया। छम्मासिया य उक्कोसिया, चाउम्मासिया मज्झमिया, सत्तराईदिया जहन्ना ॥ सू०१८॥
छाया-तिस्रः शैक्षभूमयः प्रज्ञप्ताः, तद्यथा-सप्तरात्रिंदिवा, चातुर्मासिकी, पाण्मासिकी। पाण्मासिकी चोत्कृष्टा, चातुर्मासिकी मध्यमा, सप्तरात्रिन्दिवा जघन्या' ॥ सू०१८॥