SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १० सू० २२-२५ दीक्षा पर्यायमश्रित्य सूत्राध्यापन विधिः २६१ छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकाया वा अव्यञ्जनञ्जातस्य आचारकल्पो नामाऽध्ययनमुद्देष्टुम् ॥ सु० २१ ॥ , 1 भाष्यम् – 'नो कपइ' नो नैव कल्पते, 'णिग्गंथाण वा निग्गंथीणवा' निर्ग्रन्थानां वा निर्ग्रन्थीनां वा, 'खुड्डगस्स वा खुड्ड्डयाए वा' क्षुल्लकस्य वा क्षुल्लिकाया वा, 'अव्वंजणजायस्स' अव्यञ्जनजातस्य तत्र व्यञ्जनानि युवत्वसंसूचकक्षालोमादीनि तानि न जातानि न समुत्पन्नानि यस्य यस्या वा सोऽव्यञ्जनजातोऽव्यञ्जनाता वा, तस्य तस्या वा अप्राप्तषोडशवर्षस्य क्षुल्लकस्य, अप्राप्तयौवनायाः क्षुल्लिकाया वेत्यर्थः ' आयारकप्पे नाम अज्झयणे' आचारकल्पो नामाऽध्ययनम्, अत्र आचरपदेन आचारानं कल्पपदेन निशीथमिति व्याचाराङ्गसूत्रं निशीथसूत्रं च ' उद्दिसित्तए' उद्देष्टुं समुपदेष्टुम् । उक्तञ्च— "यावन्न यौवनाऽऽशंसि, लोमलज्जोद्गमः स्फुटम् । तावन्निशीथसूत्राणां कल्पतेऽध्ययनं नहि" ॥१॥ यावत्कालपर्यन्तं यौवनाऽभिव्यञ्जकलोमराजिः नेत्राद्यङ्गप्रत्यङ्गे लज्जोद्गमः स्फुटं नावभासेत तावत्कालपर्यन्तं बालस्य दीक्षितस्यापि श्रमणस्य श्रमण्या वा निशीथसूत्रादिकमध्यापयितुं श्रमणानां श्रमणीनां वा न कल्पते, अपक्वमतिकाले तदध्ययनस्य निपेधात् । यथा - ऊनाष्टवर्षो बालश्चारित्रघारणे समर्थो न भवतीति अप्राप्ताऽष्टमवर्षस्य दीक्षणं प्रतिषिद्धम् । एवमेवाप्राप्तव्यञ्जनस्याssचाराङ्ग - निशीथ - सूत्रादिकं नाऽध्याप्यते, अपरिपक्चबुद्धितयाऽपवादशास्त्रस्य धारणेऽयोग्यतामाकलय्य स्थविरास्तान् अज्ञातव्यञ्जनान् आचाराङ्ग-निशीथसूत्रादिकं नाऽध्यापयन्तीति ॥ सू० २१ ॥ अथाऽऽचारप्रकल्पनामाध्ययनकालमाह - ' कप्पइ णिग्गंथाण वा' इत्यादि । सूत्रम् - कप्पइ णिग्गंथाण वा णिग्गंथीण वा खुड्डगस्स खुड्डियाए वा वंजणजायस्स आयारकप्पे नामं अज्झयणे उद्दित्तिए । सू० २२॥ छाया -कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य क्षुल्लिकाया वा व्यञ्जनजातस्य आचारकल्पो नामाध्ययनमुद्देष्टुम् ॥ सु० २२ ॥ भाष्यम् – 'कप्पइ' कल्पते 'णिग्गंथाण वा' निर्ग्रन्थानां वा 'णिग्गंथीण वा' निर्ग्रन्थीनां वा 'खुड्डगस्स वा खुड्डियाएवा' क्षुल्लकस्य बालकस्य वा, क्षुल्लिकाया वा, बालिकाया वा 'वजण जायस्स' व्यञ्जनजातस्य सञ्जातयुवत्वसूचककक्षारोमादिव्यञ्जनस्य तादृशस्य श्रमणस्य श्रमण्या वा 'आयारकप्पे नामं अज्झयणे' आचारकल्पो नामाध्ययनं आचाराङ्ग-निशीथ-रूपम् 'उद्दिसित्तए' उद्देष्टु समुद्देष्टुम् अध्यापयितुम्, कस्मात्कारणादिति चेद् अत्र ब्रूमः - तादृशो हि
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy