________________
२६०
व्यवहारसूत्रे ___ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लक वा क्षुल्लिका वा ऊनाटवर्षजातमुपस्थापयितुं वा संभोक्तुं वा ।। सू० १९ ॥
भाष्यम्-'नो कप्पइ' नो-नैव कल्पते, 'णिग्गंथाण वा' निम्रन्थानां श्रमणानां वा 'णिग्गंथीण वा निम्रन्थीनां श्रमणीनां वा 'खुड्डगं वा खुड्डियं वा' क्षुल्लकं भुल्लिकां वा--तत्रक्षुल्लकोऽल्पवयस्कः तम्, क्षुल्लिका- अल्पवयस्का ताम्, तादृशं पुनः कथम्भूतम्, तत्राह– 'उण?' इत्यादि, 'ऊणहवासजायं' ऊनाष्टवर्षजातम् ऊनानि किञ्चिन्यूनानि अष्ट वर्षाणि जाते जन्मनि यस्य स ऊनाष्टवर्षजातः-अष्टवर्षाद् अल्पावस्थाकः, तम् , तां वा क्षुल्लकं क्षुल्लिकां वा, 'उवट्ठावए' उपस्थापयितुं पञ्चमहाव्रतेषु-उपस्थापयितुं-प्रव्राजयितुमित्यर्थः । तथा--संभुंजित्तए' संभोक्तुं वा एकमण्डल्यां सहोपविश्य तेन सह सभोक्तुम्-आहारादिसंभोगं कर्तुम् श्रमणस्य श्रमण्या वा न कल्पते, यथाहि-अष्टवर्षान्नूनवयस्के वालके उपस्थापितं चारित्रं मतेरपरिपक्वत्वेन न सम्यग् अवतिष्ठते, तदवस्थायाश्चञ्चलस्वभावत्त्वात् , यथा आमे घटे निहितं जलं नावतिष्ठते घटस्याऽऽमत्वेन जलं निशीर्यते तथैवात्रापि विज्ञेयम् ॥ सू० १९ ॥
पूर्वम् ऊनाष्टवर्षजातं क्षुल्लकादिकं न दीक्षयेदित्युक्तं तेनाऽऽयातं पूर्णाष्टवर्षजातं तु दीक्षयेदिति तन्निराकरणाय सूत्रमाह-'कप्पई' इत्यादि ।
सूत्रम् – कप्पइ णिग्गंथाण वा णिगंथीण वा खुड्डगं वा खुड्डियं वा साइरेगअट्ठवासजाय उवट्ठावेत्तए वा संभुंजित्तए वा ॥ सू० २०॥
छाया-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकं वा क्षुल्लिकां वा सातिरेकाऽटवर्षजातम् उपस्थापयितुवा संभोक्तुं वा ॥ सू० २० ॥
भाष्यम् - 'कप्पई' कल्पते, 'णिग्गंधाण वा' निर्ग्रन्थानां वा 'णिग्गंथीण वा' निर्ग्रन्थीनां वा 'खुड्गं वा' क्षुल्लक-बालकं वा, 'खुड्डियं वा क्षुल्लिकां-बालिका वा, 'साइरेगअट्ठवासजायं' सातिरेकाष्टवर्षजातम् ‘जन्मनाऽष्टवर्षादधिकवयस्कम् 'उवद्यावेत्तए वा' उपस्थापयितुं-प्रव्राजयितुं वा, तथा 'सं जिचए वा' संभोक्तुं वा-तेन तया वा सह आहारादिसंभोगं कत्तुं कल्पते, यतः सातिरेकाष्टवर्षायुष्के मतिर्विकसितु प्रारभते ततो भगवतेद प्रतिपादितम् ॥ सू० २० ॥
पूर्व सातिरेकाप्टवर्पायुष्कं दीक्षयेदिति प्रोक्तम् , सम्प्रति तादृशस्यापि आचारप्रकल्पनामाध्ययनस्य निषेधकालं प्रदर्शवति-'नोकप्पइ' इत्यादि ।
सूत्रम् - नोकप्पई णिग्गंधाण वा णिग्गंथीण वा खुड्गस्स वा खुड्डियाए वा अन्वंजण जायस्स आयारकप्पे नाम अज्झयणे उदिसित्तए । सू० २१ ॥