________________
भाष्यम् उ० १० १० १९-२१
अवस्थामाश्रित्य दीक्षादानविधिः २५९ भाष्यम् -'तओ सेहभूमीओ पन्नत्ताओ' तिनः-त्रिसंख्यकाः शैक्षभूमयः, शैक्षकाणांशिष्याणां भूमयः-उपस्थपनाकालरूपाः प्रज्ञप्ताः-कथिताः, तानेव भेदान् दर्शयितुमाह-'तंजा' इत्यादि, 'तंजहा' तद्यथा-'सत्तराईदिया' सप्तरात्रिन्दिवा-सप्तरात्रिंदिवप्रमाणा, 'चाउमासिया' चातुर्मासिकी-चतुर्मासप्रमाणा, 'छम्मासिया' पाण्मासिकी षण्मासप्रमाणा, तत्र-तासु तिसृषु मध्ये 'छम्मासिया य उक्कोसिया' पाण्मासिकी, उत्कृष्टा शैक्षभूमिः पाण्मासिकी-भवति । तथा चाउम्मासिया मज्झमिया' चातुर्मासिकी, मध्यमा शैक्षकभूमिः चातुर्मासिकी भवति । 'सत्तराईदिया जहन्ना' सप्तरात्रिदिवा जघन्या, जघन्या शैक्षकभूमिः सप्तरात्रिदिवप्रमाणा भवति । ता एताः तिस्रः शैक्षकभूमयो भवन्तीति । ____ अयं भाव----यः शैक्षकः पूर्व गृहीतप्रव्रज्यः उत्प्रव्रजितो भूत्वा पुनरपि प्रव्रज्यां प्रतिपन्नवान् स शैक्षकः सप्तमे दिवसे उपस्थापनीयः । तस्य हि यावद्भिर्दिनैः पूर्वविस्मृतसाधुसामाचारीरूपषडध्ययनात्मकमावश्यकमधीतं भवेत् तदा दीक्षादिना सप्ममे दिवसे छेदोपस्थापनीये चारित्रे उपस्थापयितव्यः, एषा जघन्या भूमिः । यद्येतावदिनेषु आवश्यकं नाभ्यस्तं भवेत्तदा स चतुर्थे मासे उपस्थापनीयः, एपा मध्यमिका भूमिः । चतुर्भिर्मासैरप्यावश्यकं नाधीतं भवेत् तदा षष्ठे मासे उपस्थापयितव्यः, एपा उत्कृष्टा भूमिः । दुर्मेघसं धर्ममश्रद्दधान च प्रतीत्य उत्कृष्टा पाण्मासिकी भूमिर्भवतीति ।
__ अत्रेयं भावना-यदि सप्तसु दिवसेषु आवश्यकमभ्यस्तं न भवेत्तदा चतुर्थमासि उपस्थापयितव्यः । ततोऽपि यदि न भवेदभ्यस्तमावश्यकं तदा षष्ठेमासे उपस्थापयितव्यः । ततोऽपि न भवेत् तदा यदा भवेत्तदोपस्थापयितव्यः । जघन्यभूमिप्राप्तः शैक्षो धर्मश्रद्धापरिणतत्वेन परिणामकः कथ्यते । परिणामको द्विप्रकारको भवति, यथा-आज्ञापरिणामको दृष्टान्तपरिणामकश्च । तत्रआज्ञापरिणामकः आज्ञयैव -जिनाज्ञामात्रेणैव परिणतो भवति 'तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं तदेव सत्यं निश्शवं यज्जिनैः प्रवेदितम्, इत्येवंप्रकारेण जिनोकानि जीवा-जीवादितत्त्वानि निश्शवं श्रद्दधाति न कारणं जानीते न वा कारणं पृच्छति स आज्ञापरिणामक शैक्षः ।
यस्तु परोक्षहेतुकमर्थ प्रत्यक्षप्रसिद्धदृष्टान्तद्वारा आत्मबुद्वौ-आरोपयति नान्यथा, स दृष्टान्त परिणामकः । दृष्टान्तेन विवक्षितम परिणमयति स्ववुद्धौ स दृष्टान्तपरिणामक इति ।। सू० १८ ॥
पूर्व शैक्षकस्योपस्थापनाकालः प्रोक्तः, साम्प्रतं शैक्षकस्याऽदस्थामधिकृत्योपस्थापनाप्रकारमाह-'नो कप्पइ निग्गंथाण वा' इत्यादि ।
सूत्रम् -लो कप्पइ निग्गंथाण वा णिग्गंथीण वा खुड्डगं वा खुड्डियं वा ऊणवासजायं उपहावेत्तए वा संभुजित्तए वा ॥ सू० १९ ॥