________________
२५०
ध्यवहारसूत्रे
भाष्यम् - 'चत्तारि' चत्वारः चतुःसंख्यकाः 'पुरिसजाया पन्नत्ता' पुरुपजाता पुरुषप्रकाराः प्रज्ञप्ताः, तानेव चतुरः प्रकारान् दर्शयितुमाह-'तंजहा' इत्यादि । 'तंजहा' तद्यथा-'गणसोहिकरे णामं एगे नो माणकरे १' गणशोधिकरो नाम एको नो मानकरः । तत्र-गणस्य शोधि प्रायश्चित्तदानेन धर्मप्ररूपणया च विशुद्धिं करोतीति गणशोधिकरो न तु मानकरः १ । 'एगे माणकरे नो गणसोहिकरे २' एको मानकरो भवति नो न तु कदाचिदपि गणस्य शोधिकरो भवति २ । 'एगे गणसोहिकरेवि माणकरेवि ३' एको गणशोधिकरोऽपि मानकरोऽपि ३ । 'एगे नो गणसोहिकरे नो माणकरे ४' एको नो गणशोधि. करो नो मानकरः ४ । अत्रापि प्रथमतृतीयभङ्गौ सफलौ, द्वितीयचतुर्थभङ्गो त्रिफलाविति । अत्रायं दृष्टान्त:___ एकस्मिन् नगरे जनपदविहारेण विहरन्त आचार्या अनेकैर्मुनिसघाटकैः सह समवसृताः । तत्र साधुसद्धाटकाः पृथक् २ भिक्षार्थ ग्रामे प्रविष्टवन्तः, तत्रैकस्मिन् गृहस्थगृहे एकः संघाटको भिक्षार्थं गतः, तत्र तस्य गृहे तदा प्राघुणकादिनिमित्तं बहुलं मोदकानां भोज्यं सम्पादितमासीत् ततस्तस्मै साधुसद्घाटकाय विपुला मोदकाः प्रतिलाभिताः । तदनन्तरमकस्माद् द्वितीयः सद्घाटकोऽपि तत्रैव गतः, तेनापि विपुला मोदका लब्धाः । एवं तृतीयश्चतुथः सद्घाटकोऽपि तत्र गत. मोदकांश्च लब्धवान् । आगताः सर्वे उपाश्रये, आचार्येभ्यो भिक्षा प्रदर्शिता । सर्वेषां सदृशभिक्षालाभेन तेषां साधूनां मनसि शङ्का जाता यदेतेषां मोदकानामुद्गमा अशुद्धाः संभवेयुः साधूनागतान् श्रुत्वा साध्वर्थमिमे संपादिता इति लक्ष्यते । इति शङ्किते गत्वा तद्गृहं द्रष्टव्यं स प्रष्टव्यश्च भवेत् भो श्रमणोपासक ! अद्य तव गृहे सखडिर्वतते प्राधुणका वा समागताः ?, अथवा साधूनां कृते मोदकाः सपादिताः क्रीता वेति । तत्र च गृहे भोजनवेलायां न कोऽपि प्रवेशं लभते, क एतादृशः साहसिकः साधुर्यो भोजनवेलायां गृहस्थगृहे प्रविशेत् , पृच्छा विना एतदशनादि साधुभिर्न भोक्तव्यम् , एष साधुकल्पः । तत्रैकः ओजस्वी साधु' तद्गृहजनानां परिचितश्च स तस्मिन् गृहेऽनिवारितप्रसरस्तद् दुष्प्रवेशं गृहं प्रविशति । प्रविश्य च तेषां मोदकानामुद्गमं पृच्छाप्रतिपृच्छादिना विज्ञाय शुद्ध एषामुद्गमः, इति निशङ्कितं करोति । आगत्याऽऽचार्यपादमूले निवेदयति न मानं करोति, एष प्रथम पुरुषजातो योऽमानेन गत्वाऽऽहारस्य शोधिं कृतवान् तेनायं शोधिकरो नो मानकर इति । एवं द्वितीयः केवलं मानकर. किन्तु शोधिकरणेऽसमर्थः २। तृतीयः शोधिमपि कगेति, कृत्वा मानमपि करोति ३। चतुर्थस्तु नोभयकरणसमर्थः ४। इति भङ्गचतुष्टयभावना ॥ सू० १० ।।।
पूर्व शोधिमाश्रित्य चतुर्भङ्गी प्रोक्ता. तत्र शोधिरिति वा धर्म इति वा एकार्थः, धर्मश्च रूपतो भावतश्चेति द्विधा भवति ततो रूपधर्मोभयमधिकृत्य चतुर्भगीमाह-'चन्तारि' इत्यादि ।