________________
भाष्यम् उ० १० सू० ११-१९
चतुष्प्रकारपुरुपजातनिरूपणम् २५१ सूत्रम् - चत्तारि पुरिसजाया पन्नत्ता, तंजहा-रूवं नाम एगे जहइ नो धम्म१, धम्म नाम एगे जहइ नो रूबं२, एगे रूबंवि जहइ धम्मंवि जहइ३, एगेनो रूपं जहइ नो धम्मं जहइ४ ॥सू० ११॥
छाया-चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा-रूपं नाम एको जहाति नो धर्मम् १, धर्म नाम एको जहाति नो रूपम् २; एको रूपमपि जहाति, धर्ममपि जहाति ३. एको नो रूपं जहाति नो धर्म जहाति४ ॥सू० ११॥
. भाष्यम्- - ‘चत्तारि' चत्वारः 'पुरिसजाया' पुरुषजाताः पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञप्ताः, तानेव चतुरो भेदान् दर्शयितुमाह-'तजहा' इत्यादि, 'तंजहा' तद्यथा 'रूवं नाम एगे जहइ नो धस्म' रूपं नाम एको जहाति नो धर्म जहाति, प्रयोजने समुपस्थिते सति रूप-स्वकीय लिङ्गं जहाति-परित्यजति, स्वलिङ्गं परित्यज्यापि साधयति कार्यम् , किन्तु धर्म श्रुतचारित्रलक्षणं कदापि न जहाति, इति प्रथमः १ ।
'धम्मं नाम एगे जहइ नो रूवं' धर्म नाम एको जहाति नो रूपम् , यथा-पार्श्वस्थः इति द्वितीयः २ ।
'एगे रूबंवि जहइ धम्मवि जहइ' एको रूपमपि जहाति धर्ममपि जहाति, यथा -एकान्ततो मिथ्यादृष्टिरिति तृतीयः ३ ।।
'एगे नो रुवं जहइ नो धम्मं जहइ' एको नो रूपं जहाति नो धर्म जहाति यथाज्ञानादिरत्नत्रयाऽऽराधकः, इति चतुर्थः ४ ।
_ अत्र यः सदोरकमुखवस्त्रिकारजोहरणादिरूपो मुनिवेषः स रूपमुच्यते, तथा धर्मों ज्ञान-दर्शन-चारित्रलक्षणः, धर्मशब्देन त्रयाणां रत्नानामेव ग्रहणं भवति ।
अयं भावः-कश्चिद् भावतो ज्ञानादिरत्नत्रयसमन्वितोऽशिवादि-मिथ्यादृष्टिराजादि-कारणवशाद् अन्यलिङ्गं गृहिलिङ्गं वा प्रतिपद्यमानस्स्यक्तलिङ्गोऽत्यक्तधर्मश्च कथ्यते । अत्र दृष्टान्तः
। आसीत् कस्मिंश्चिन्नगरे कनकदत्तो नाम राजा महामिध्यादृष्ठिर्नास्तिकवादी वावदूकः वाचालः पण्डिताभिमानी पण्डितैः सह वादं दत्त्वा तद्बुद्धिमेवोपजीव्य पण्डितान् अपमानयति । अथ कदाचित् कालान्तरे प्रवृद्धमिथ्यावासनः सर्वज्ञमतोपासकान् साघून् अपवद्रावयितुं प्रवृत्तः । स चाय साधून् कथयति-यदि युष्माकं धर्मः सत्यस्तर्हि भवद्भिर्मया सह वादः क्रियताम् । यदा साघवो वादाय समागच्छन्ति तदा किञ्चिद्वादं कृत्वा तानपमान्य स्वदेशादेव निष्कासयति । ततस्तस्यैतादृशमपद्रावणकरणेन सर्वेऽपि साधव. श्रावकाश्च परमोद्विग्ना जाताः, परस्परं विचारणां च कुर्यु.-कथमेतस्य राज्ञो वादे पराजयः स्यात् अयं पण्डिताभिमानी दुःखायति साधून् । ततस्तत्रासीत् कश्चित् वादलब्धिसम्पन्नः खेचरलब्धिमांश्च साधुः, सः 'संघस्य अपमानो