SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १० सू० १० चतुष्प्रकार पुरुषजातनिरूपणम् २४९ 'सोहकरेवि माणकरेवि एकस्तृतीयः सः - यो गणशोभाकरोऽपि मानकरोऽपि शोभामानयोरुभयोरपि कारक' स तृतीयः ३ । 'एगे नो गणसोहकरे नो माणकरे' एकश्चचतुर्थः स पुरुषो यो न कदाचिदपि गणशोभाकरो न वा मानकरो भवति उभयवर्जितश्चतुर्थः ४ । अत्रापि चतुर्षु भङ्गेषु मध्ये प्रथमतृतीयौ सफलौ, द्वितीयचतुर्थभङ्गौ विफलाविति ॥ तंत्र-गणशोभाकरो नाम-यो गणं शोभयति, शोभा खल वादिजयप्रवचनोड्डाह निवारणादिभिर्भवति, तथाहि–वादेन वादिनं पराजित्य गणं शोभयति, उत्सूत्रप्ररूपकं सूत्रार्थं सम्यक् प्रदर्शये जिनमार्गे स्थापयति, प्रवचनाक्षेपकान् सूत्रप्रमाणं प्रदर्श्य प्रवचनप्रभावनां वर्धयति धर्म-कथादिभिर्निमित्तैः, तथा विद्यादिभिचोन्मार्गगतान् यथायोगं जिनधर्मे आनयति, इत्येवंप्रकारेण सदा गणं शोभयति । अयं भावः– यदा कदाचित् सकलदर्शन पारवा वादी समागत्य गणनायकस्य पुरत एवं वदति - भो आचार्यमतप्रचारक ! साघो । यदि त्वयि पाण्डित्यं भवेत्, यदि वा पाण्डित्येन स्वकीयं मतं लोके व्यवस्थापथसि, तर्हि राजादिपरिवृतपरिषदि मया सह वादं कुरु, यदि मां विजेष्यसि तदा त्वन्मतस्य संस्थापनं स्यात्, अहं तव धर्मं स्वीकरिष्यामि, नो चेत् केवलं विप्रतारकमेव त्वां मन्ये । तदा यदि प्रतिवादिना वादं कर्त्तुं स गणनायको न शक्तो भवेत् तदा महती शासनस्याऽप्रतिष्ठा स्यात् इति मन्यमानो वादनिपुणः साधुस्तं दुर्दान्तवादिनं सर्वज्ञसिद्धान्तोक्तमनेकान्तवादं पुरस्कृत्य पराजयति, पराजित्य च तं वादिन जिनधर्मे स्थापयित्वा शासनस्य शोभां वर्धयति । एवंप्रकारेण स गणस्य शोभाकरो भवति । न केवलं वादेनैव पराजित्य गणशोभाकरः किन्तु धर्मकथां कृत्वा गणं शोभयति । तथा निमित्तादिशास्त्रं सम्यग् ज्ञात्वा निमित्तादिकथनद्वारा राजानमावर्जयित्वा शासनस्य ख्याति लोके सपादयति । एवं विद्यादि - बलात् महतोऽपि सङ्घप्रयोजनस्य साधनाद् गणं शोभयति । यदा कदाचित् सङ्घस्य महत्कार्य समुपस्थितं भवेत् कार्यं च तादृशं प्रकारान्तरेण साधितं न भवति, तदा स साधुः विद्यातिशयप्रभावेण सङ्घस्य तादृशं कार्यं साधयन् गणशोभाकरो भवतीति ॥ सू० ९ ॥ अथ - शोधिमधिकृत्य चतुर्भङ्गी माह--' चत्तारि पुरिसजाया' इत्यादि । सूत्रम् - चत्तारि पुरिसजाया पन्नत्ता, तंजहा गणसोहिकरे णासं एगे नो माणकरे १, एंगे मांणकरे नो गणसोहिकरे २, एगे गणसोहिकरेवि माणकरेवि ३, एगे नो गणसोहिकरे नो माणकरे ॥ सू० १० ॥ छाया- चत्वारः पुरुषजाताः प्रज्ञप्तः, तद्यथा- गणशोधिकरो नाम पको नो मानकरः १, एको मानकरो नो गणशोधिकरः २, एको गणशोधिकरोऽपि मानकरोऽपि ३, एको न गणशोधिकरो नो मानकरः ।। सू० १० ॥ व्यं. ३२
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy