________________
- व्यवहारसूत्र करः, तत्र गणस्य-गच्छस्य संग्रह-द्रव्यभाव मेदभिन्नं करोति-संपादयति यः स गणसंग्रहकरः, संग्रहो द्विविधो दूव्यतो भावतश्च, तत्राऽऽहारवस्त्रपात्रादिकं द्रव्यसंग्रहः, सूत्रार्थज्ञानादिकं भावसंग्रहः, तदुभयमपि संग्रहं संपादयति नो मानकरः-नो-न कथमपि मानकरः आहारवस्त्रपात्रादिना ज्ञानादिना च गच्छस्योपग्रहं करोति किन्तु नाभिमानं करोतीति प्रथमः १ । 'एगे माणकरे नो गणसंगहकरे २' एको मानकरो नो गणसंग्रहकरः-स्वस्य जातिकुलादेमनिमेव करोति गणसंग्रहं न करोतीति द्वितीयः २ । 'एगे गणसंगहकरेवि माणकरेवि' एको गणसंग्रहकरोऽपि मानकरोऽपि गणस्यापि संग्रहं करोति मानमपि करोतीति तृतीय ३ । 'एगे नो गणसंगहकरे नो माणकरे ४' एको नो गणसंग्रहकरो नो मानकरः, द्वयमपि न करोतीति चतुर्थः ४ ।
अयं भावः-तत्र प्रथमभङ्गीयः साधुः द्रव्यत आहारोपधिशय्यादिद्वारा संग्रहकरो भवति, भावतो ज्ञानादिना संग्रहकरो भवति, रणनायके आचार्येऽसमर्थं मति यदा गुरुः शारीरिकादिसामर्थ्याऽभावेन वाचनादाने शक्तो न भवति तदा शिष्यात्-प्रातीच्छकात् वाचयति एषः प्रथमः १ । द्वितीयस्तु-मानं करोति न तु द्रव्यतो भावतो वा गणस्य संग्रहं करोति २ । तृतीयस्तु-गणस्य द्रव्यतो भावतश्च सग्रहं करोति ३ । चतुर्थस्तु-न द्रव्यतो न भावतो गणस्य संग्रहं करोति ४ । तदेवं चत्वारः पुरुषा भवन्ति ॥ सू० ८ ॥
अथ गणशोभामधिकृत्य चतुर्भङ्गीमाह-'चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता, तंजसो गणहाहकरे नाम एगे नो माणकरे १, माणकरे नाम एगे नो गणसोहकरे २, एगे गणसोहकरेवि माणकरेवि ३, एगे नो गणसोहकरे णो माणकरे ४ ॥ सू० ९॥
छाया-चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा-गणशोभाकरो नाम एको नो मानकरः १, मानकरो नाम एको नो गणशोभाकरः २, एको गणशोभाकरोऽपि मानकरोऽपि३, एको नो गणशोभाकरो नो मानकरः ४ ॥ सू० ९॥
भाष्यम्-'चत्तारि' चत्वारः 'पुरिसजाया' पुरुषजाताः-पुरुषप्रकाराः 'पन्नत्ता' प्रज्ञप्ताः । तानेव चतुर्भेदान् पुरुषान् दर्शयितुमाह-'तंजहा' तद्यथा-'गणसोहकरे नामं एगे नो माणकरे१' गणशोभाकरो नाम एको नो मानकरः, तत्र गच्छस्य चतुविधसदस्य शोभा गणस्य ख्याति प्रवचनप्रभावनारूपां वा करोति स गणशोभाकरः, नो मानकरः न तु कदाचिदपि गणस्य शोभाकरणात् स्वमनसि मानम् अभिमानं करोति, एतादृशः प्रथमः पुरुषः १ ।
___ 'माणकरे नाम एगे नो गणसोहकरे२' मानकरो नाम एको नो गणशोभाकरः, मानमेव करोति किन्तु कदाचिदपि गणस्य शोभां न करोति, एप द्वितीयः २ । 'एगे गण