________________
૨૪૭
भाग्यम् उ० १० सू० ८-९
चतुष्पुरुषजातप्रकरणम्
पुरुषः प्रथमः १ | 'माणकरे णाम एगे नो गणट्टकरे' मानकरो नाम एको नो गणार्थकरः मानें करोति नो करोति गणस्यार्थ - कार्यम् स च द्वितीयः २ । 'एगे गणट्टकरेवि माणकरेवि३, एको गणार्थकरोऽपि मानकरोऽपि - गणस्याऽर्थसंपादकोऽपि भवति तथा मानकरोsपीति तृतीयः ३ । एगे णो गणडकरे णो माणकरे' एको नो गणार्थकरो नो मानकरः, न खलु गणस्याऽर्थं-कार्यमेव करोति न वा मानमभिमान करोतीति चतुर्थः पुरुषः ४
तेषु चतुर्ष्वपि पुरुझजातेषु ये साधोः समानरूपधारिणो मुण्डित शिरस्का भिक्षाटनशीलाः, तथा— दैवचिन्तकाः निदर्शनं दृष्टान्तो भवति । तत्र- दैवचिन्तका नाम ते ये शुभाशुभं राज्ञे कथयन्ति, शकुनादिशास्त्रज्ञा इत्यर्थः, त एवात्र दृष्टान्तः तथाहि प्रथमः सः यो हि राज्ञा पृष्टोsपृष्टो वा शुभाशुभं साधयति, किन्तु मानं न करोति १ । द्वितीयो मानं करोति न च मानादेव किञ्चित् पृष्टोऽपि कथयति २ । तृतीयो यदि पृच्छति तदा कथयति नो पृच्छति तदा न कथयति ३ । चतुर्थो न किमपि कथयति न वा मानमेव करोति ४ ।
तत्र द्वौ प्रथमतृतीयौ सफलौ द्दौ च द्वितीयचतुर्थो विफलौ । एवं दृष्टान्तगतेन प्रकारेण गणेऽपि प्रथमतृतींयौ सफलौ, द्वौ च द्वितीय - चतुर्थो विफलावेव ज्ञातव्यौ । तेषां चतुर्णामपि साधूनां मध्ये प्रथम आहारोपधिशयनासनादिभिर्गच्छस्योपकारं करोति, न च कदाचिदपि मानं करोति १ । द्वितीयो मानं करोति न च गणधरस्योपकारं करोति २ । तृतीयो गच्छस्योपकारमपि करोति मानमपि करोति ३ । चतुर्थस्तु न गच्छस्योपकारं करोति न वा मानमेव करोति ४ । त इमे चत्वारो मुनिप्रभेदा भवन्तौति ॥ सू० ७ ॥
अथ गण संग्रहमधिकृत्य चतुर्भङ्गीमाह - 'चत्तारि पुरिसजाया' इत्यादि ।
सूत्रम् - चत्तारि पुरिसजाया पन्नत्ता तंजहा - गणसंगहकरे नाम एगे नो मानकरे १ एगे माणकरे नो गणसंगहकरे २, एगे गणसंगहकरेवि -माणकरेवि ३, एगे नो गणसंगहरे नो माणकरे ४ ॥ सू० ८ ॥
छाया[- चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा - गणसंग्रहकरो नाम एको न मानकरः ?, एको मानकरो नो गण संग्रहकर : २, एको गणसंग्रहकरोऽपि मानकरोऽपि ३, एको नो गणसंकरो नो मानकरः ॥ सू० ८ ॥
भाष्यम् – 'चत्तारि पुरिसजाया' चत्वारः पुरुषजाताः, तत्र चत्वारः- चतुष्प्रकारकाः पुरुषजाताः - पुरुषाः 'पन्नत्ता' प्रज्ञप्ताः तानेव भेदान् दर्शयितुमाह- 'तंजहा' इत्यादि, 'तंजहा' तथथा - 'गणसं गढ़करे णामं एगे नो माणकरे' गण संग्रहकरो नाम एको न मान