________________
भाष्यम् उ० १० सू० ४
वज्रमध्यचन्द्रप्रतिमास्वरूपम् २३९
एगा दत्ती । सुक्कपक्खस्स पाडिवर कप्पर दो दत्तीओ, बीयाए तिष्णि जाव चउदसीए पणरस, पुण्णिमाए अभत्तट्ठे भवइ । एवं खलु एसा वइरमज्झा चंदपडिमा अहासुतं अहाकप्पं अहामग्गं जाव अणुपालिया भवइ ॥ सू० ४ ॥
छाया- -वज्रमध्यां खलु चन्दप्रतिमां प्रतिपन्नस्याऽनगारस्य बहुलपक्षस्य प्रतिपदि कल्पते तस्य पञ्चदश दत्तीर्भोजनस्य प्रतिग्रहीतुम् पंचदश पानकस्य, सर्वैर्द्विपदचतुष्पदादिभिराद्दारकांक्षिभिः यावत् नो आहरेत् । द्वितीयायां तस्य कल्पते चतुर्दश दत्तीजनस्य प्रतिग्रहीतुं चतुर्दश पानकस्य यावत् नो आहरेत् । एवं यावत् पञ्चदश्याम् (अमावास्यायाम्) एका दत्तिः । शुक्लपक्षस्य प्रतिपदि कल्पते हे दत्ती, द्वितीयायां तिस्रः यावच्चतुर्दश्यां पञ्चदश, पूर्णिमायाम् अभक्तार्थो भवति । एवं खलु एषा वज्रमध्या चन्द्रप्रतिमा यथासूत्रं यथाकल्पं यथामार्ग यावत् अनुपालिता भवति ॥ सू० ४ ॥
भाष्यम् –'वइरमज्झं णं चंदपडिमं' वज्रमध्यां खलु चन्द्रप्रतिमाम् ' पडिवन्नस्स' अणगारस्स' प्रतिपन्नस्याऽनगारस्य - साधोः 'वहुलपक्खस्स' बहुलपक्षस्य कृष्णपक्षस्येत्यर्थः 'पाडिवए' प्रतिपदि–प्रतिपत्तिथौ प्रथमदिवसे इत्यर्थः, 'कप्पर पन्नरस दत्तीओ भोयणस्स पडिगा - हित्तए' कल्पते पञ्चदश दत्तीर्भोजनस्य - भक्तौदनादेः प्रतिग्रहीतुम्, तथा - 'पन्नरस पाणगस्स' पञ्चदश दत्ती' पानकस्यापि प्रतिग्रहीतुं कल्पते, कदा ? इत्याह-- ' सव्वेहिं दुप्पयचउप्पयाइएहिं आहारकंखीहिं जाव णो आहारेज्जा' सर्वेषु द्विपदचतुष्पदादिषु आहारकांक्षिषु प्रतिनिवृत्तेषु यावद् नो आहरेत्, एतया सूत्रोक्तया एषणया एषयन् यदि लभेत तदा - आहरेत्, एषणया एषयन् नो लभेत तदा नो आहरेदिति सर्वत्रैव योजनीयम् । अत्र - यावत्पदगृहीतस्य सर्वस्यापि पाठस्यार्थो यवमध्यचन्द्रप्रतिमासूत्रे विलोकनीयः ।
एतया
'वितियाए चउद सदत्तीओ भोयणस्स पडिगाहित्तए जाव णो आहारेज्जा' कृष्णपक्षस्य द्वितीयायां तिथौं द्वितीयदिवसे इत्यर्थः ' से' तस्याऽनगारस्य कल्पते चतुर्दश दत्तीर्भोजनस्य-भक्तौदनादेः प्रतिग्रहीतुम् चतुर्दश पानकस्य पानस्यापि चतुर्दशैव दत्तः प्रतिग्रहीतुं कल्पते, तत्र यदि एतया सूत्रोक्तया एषणया एषयन् लभेत तदा- - आहरेत् यदि नो लभेत तदा नो आहरेत्, इति । एवं जाव पणरसीए एगा दत्ती' एवम् अनेन प्रकारेण यावत् तृतीयात आरम्य क्रमश एकैकोनत्वेन पञ्चदश्यां तिथौ अमावास्यायाम् एका दत्तिर्ग्रहीतव्या भवति, एकां दत्ति प्रतिग्रहीतुं कल्पते । तदनन्तरम् 'सुक्क पक्खस्स पाडिवर' शुक्लपक्षस्य प्रतिपत्तिथौ कल्पते साधोः द्वे दत्ती प्रतिग्रहीतुम्, 'वीयाए तिष्णि' द्वितीयायां तिस्र' 'जाब चउदसीए पणरस' यावत् तृतीयात आरभ्य क्रमश एकैकवृद्धया चतुर्दश्यां तिथौ पञ्चदश, 'पुण्णिमाए अभत्तट्टे