________________
व्यवहारसूत्रे वा अस्थना वा जोत्रेण वा वेत्रेण वा कशया वा कायमाकुट्येत, तान् सर्वान् समुत्पन्नान् सम्यक् सहेत क्षमेत तितिक्षेत अधिसहेत ॥ सू० ३ ।।
भाष्यम्-वइरमझं ण चंदपडिम' वजमध्यां खलु चन्द्रप्रतिमाम्, तत्र-वत्रस्येव मध्य यस्याः सा वज्रमध्या चन्द्राकारा-चन्द्रतुल्या प्रतिमा-वज्रमध्यचन्द्रप्रतिमा, वनवद् आदौ अन्ते च स्थूला, मध्ये तनुकेत्यर्थः । कृष्णपक्षचन्द्राऽनुसारित्वात् चन्द्रानुसारिणी भवति ।
अयं भावः-वामध्यचन्द्रप्रतिमायां कृष्णपक्ष आदौ क्रियते तत एवं भावना-कृष्णपक्षस्य प्रतिपत्तिथौ चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते, द्वितीयायां चन्द्रविमानस्य त्रयोदश कला दृश्यन्ते, तृतीयायां द्वादश यावत् चतुर्दश्याम् एकैव कला दृश्यते, अमावास्यायां तु-एकापि कला चन्द्रविमानस्य न दृश्यते । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्यैका कला दृश्यते द्वितीयायां द्वे कले दृश्येते, तृतीयायां तिनः कला दृश्यन्ते, एवं यावत् पञ्चदश्यां पञ्चदशाऽपि कला दृश्यन्ते । तदयं मासः आदो अवसाने च पृथुलो मध्ये तनुकः, वनमपि आदावन्ते च विपुलं मध्ये तनुकम् । एवंप्रकारेण श्रमणोऽपि भिक्षां गृह्णाति, कृष्णप. क्षस्य प्रतिपदि चतुर्दश, द्वितीयायां त्रयोदश, तृतीयायां द्वादश यावत् चतुर्दश्यामेकैव, अमावास्यायाम् उपोषितो भवति । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि एकां भिक्षां गृह्णाति, द्वितीयायां वे भिक्षे, तृतीयायां तित्रो भिक्षाः यावत् पञ्चदश्यां पच्चदश । तत एषा कृष्णपक्षगतचन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुतया वज्रमध्योपमितमध्यभागा इति वज्रमध्यचन्द्रप्रतिमा भवतीति । एतादृशीं वज्रमध्यचन्द्रप्रतिमाम् 'पडिवन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य साधोः 'णिच्चं मासं वोसट्टकाए' नित्यं मासं मासपर्यन्तं व्युत्सृष्टकाये-परित्यक्तपरिकर्मणि काये अत एव 'चियत्तदेहे' त्यक्तदेहे-त्यकात्मभावे देहे अनयोईयोः पदयोः सविस्तरमों यवमध्यचन्द्रप्रतिमासूत्रे विलोकनीय, एतादृशे देहे 'जे कइ परीसहोवसग्गा समुप्पज्जति' ये केचित् परीघहोपसर्गाः शरीरविघातकाः परीपहा. उपसर्गाश्च समुत्पद्यन्ते-समागच्छन्ति तान् सर्वान् एव सोऽधिसहेतेत्यग्रिमेण सम्बन्धः । ते के परीपहोपसर्गा इति तान् नामग्राहं दर्शयितुमाह-'तंजहा' इत्यादि, तद्यथा-'दिव्या वा माणुस्सगा वा तिरिक्खजोणिया वा' इत्यादि, शेषं सर्वे सूत्रं यवमध्यचन्द्रप्रतिमावद् व्याख्येयम् ॥ सू० ३ ॥
पूर्व वज्रमध्यचन्द्रप्रतिमाया' स्वरूपं प्रदर्शितम् , सम्प्रति तस्याः पालनप्रकारः प्रदर्श्यते'वइरमज्झं गं' इत्यादि ।
सूत्रम्- वइरमज्झं णं चंदपडिम पडिवन्नस्स अणगारस्स बहुलपक्खस्स पाडिवए कप्पइ पन्नरस दत्तीओ भोयणस्स पडिगाहित्तए-पन्नरस पाणगस्स, सव्वेहिं दुप्पयच उप्पयाइएहिं आहारकंखीहि जाच णो आहारेज्जा । वितियाए से कप्पइ चउद्दस दत्तीओ भोयणस्स, चउद्दस पाणगस्स पडिगाहित्तए जाव णो आहारेज्जा । एवं जाव पणरसीए