________________
भाष्यम् उ० १० सू० २
येवमध्यचन्द्रप्रतिमास्वरूपम् २३५ वास्यायां चोपोषितो भवति, चतुर्थभक्कं करोतीत्यर्थः । ततश्चचन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च भिक्षायात्तनुत्वात् मध्ये विपुलत्वात् यवमध्योपमितमध्यभागा, एवम्भूतां यवमध्यचन्द्रप्रतिमाम् 'पडिबन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य-साधोः स्वीकृतयवमध्यचन्द्रप्रतिमस्य भिक्षोः, 'मुक्कपक्खस्स पाडिवए' शुक्लपक्षस्य प्रतिपत्तिथौ 'कप्पई' एग दति भोगणस्स पडिगाहित्तए' कल्पते एकां दत्ति भोजनस्य प्रतिग्रहीतुम् , तथा-'एगं पाणगस्स' एकां दत्ति पानकस्य प्रतिग्रहीतुं कल्पते । कदा कल्पते ? इत्याह-सव्वेहि' इत्यादि, 'सव्वेहि दुप्पयचउप्पयाइएहिं आहारकंखीहि सत्तेहि पडिणियत्तेहिं' सर्वैदिपदचतुष्पदादिभिराहारकाक्षिभिः सत्त्वैः-प्राणिभिः आहारं कृत्वा प्रतिनिवृत्तैः, अत्र सप्तम्यर्थे तृतीया प्राकृतत्वात् तेन सर्वेषु द्विपदचतुप्पदादिषु आहारकाक्षिषु सत्त्वेषु प्रतिनिवृत्तेषु सत्सु, इत्यर्थः । ___अयं भावः-तस्मिन् समये साधुर्भिक्षार्थ गच्छेत् यदा सर्वेऽति द्विपदचतुप्पदादयो जीवा आहारकांक्षिणः माहारं कृत्वा प्रतिनिवृत्ता भवेयुस्तदवसरे साधुर्भिक्षार्थ परिभ्रमेदिति । कोशमाहारं गृहीयात्तत्राह-'अन्नायउंछे' अज्ञातोंछम् , अज्ञातस्य-अपरिचितकुलस्य उञ्छम्-अल्पमल्पं 'सुद्धोवहई' शुद्धोपहृतम् निर्दोपमाहारं दातुमुत्थापितम् , यद्वा शुद्धेन-सचित्तादिसंपर्करहितेन गृहस्थेन उपहृतम्-दातुं हस्ते गृहीतं तत् अन्यस्मै दत्त्वा अवशिष्टं स्याद्भवेत्। 'निज्जूहित्ता वहवे समण-माहण-अइहि-किवण-वणीमगा' बहून् श्रमण-माहना ऽतिथि-कृपण-वनीपकान् , तत्रश्रमण.-शाक्यमिक्षुः, माहनो भिक्षावृत्तिको व्राह्मण, अतिथिः-प्राघुर्णकादिः, कृपणः दीनः, वनीपकोयाचकः, इत्येतान् सर्वान् नियूह्य-भिक्षाग्रहणप्रवृत्तान् वर्जयित्वा, यदा ते भिक्षां गृह्णन्तो भवेयुस्तदा तत्र साधना भिक्षार्थ न गन्तव्यमिति भावः। तत्समये तत्र गतस्य 'कप्पइ से एगस्स मुंजमाणस्स पडिगोहित्तए' कल्पते तस्य-गृहस्थगृहे प्रविष्टस्य, तत्र-एकस्य मुञानस्य प्रतिग्रहीतुम् , एक एव पुरुषो यत्र भुङ्क्ते तस्य हस्तादेवान्नपानादिकं प्रतिग्रहीतुं कल्पते किन्तु-'नो दोण्हं नो तिण्डं नो यो पुरुपयोर्मुञानयोस्त्रयाणां वा भुजानानाम् एवम्-'नो चउण्हं नो पंचण्हं' नो चतर्णा नो वा पञ्चानां हस्ताद् भिक्षां प्रतिग्रहीतुं कल्पते, एवम् 'नो गुत्रिणीए' नो गुर्विण्या गर्भवत्या हस्तात् 'नो वालवच्छाए' नो वालवत्सायाः यस्य बालोऽव्यक्तः, स न तस्या विरहे तिष्ठति एतादृश्या हस्तात् , एवम् -'नोदारगं पेज्जमाणीए' नो दारकं पाययन्त्याः-बालकं स्तन्यं धायन्न्याः, या स्त्री बालकं स्तन्यं पायर्यात तद्धस्तादपि भिक्षां ग्रहीतुं न कल्पते, पुनश्च 'नो से कप्पड अंतो एलयस्स दोवि पाए साहटु दलमाणीए' न तस्य श्रमणस्य कल्पतेऽन्तमध्ये एलुकस्यगडदेहल्याः द्वावपि पादौ-चरणौ सत्य-स्थापयित्वा ददत्या', गृहद्वाराभ्यन्तरे पादद्वयं संहन्य या भिक्षा ददाति तद्धस्तादपि नो ग्रहीतुं कल्पते 'नो वाहिं एलुयस्स दोवि पाए साहहु दलमाणीए नो-न वा बहिः-बहिर्मागे एलुकस्य-गृहद्वारस्य द्वावपि पादौ संहृत्य भिक्षां ददत्याः, गृहस्य बहिर्मागे चरणद्वयं स्थापयित्वा या भिक्षां ददाति तद्धस्तादपि ग्रहीतुं न कल्पते इति