SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ व्यवहारीसंत्र पूर्वेण सम्बन्धः । तदा कथं कल्पते ? इत्याह-'अह पुण एवं जाणेज्जा' अथ पुनरेवं जानीयात्'एगं पायं अंना किच्चा' एकं पादमन्तारस्य कृत्वा, 'एगं पायं वाहि किच्चा' एकं पादमेलुकस्य-द्वारस्य वहिः-बहिर्भागे कृत्वा 'एलुयं विक्खंभइत्ता' एलुकं-गृहद्वारं विष्कम्भयित्वा द्वयोश्चरणयोर्मध्ये कृत्वा ददत्या हस्तात्कल्पते, 'एयाए एसणाए एसमाणे लभेज्जा' एतया एषणया एषयन् यदि लभेत, तदा 'आहारज्जा' आहरेत्- आहारं कुर्यात् तादृशमन्नपानादिकं ग्रहीतुं कल्पते इति भावः 'एयाए एसणाए एसमाणे णो लभेज्जा णो आहारेज्जा' एतया एषणया एपयन् यदि नो लभेत तदा नो आहरेत् आहारं नो कुर्यात् । एषः प्रथमदिनभिक्षाग्रहणविधिरुक्तः, एवंरीत्यैव द्वितीयादितिथिविषयेऽपि योजनीयमिति । एवम् 'विइयाए से कप्पइ दोणि दत्तीओ भोयणस्स पडिगाहित्तए दो पाणगस्स' द्वितीयायां तिथौ 'से' तस्य यवमध्यचन्द्रप्रतिमा प्रतिपन्नस्याऽनगारस्य कल्पते द्वे दत्ती भोजनस्य-भक्तौदनादेः प्रतिग्रहीतुं तथा द्वे दत्ती पानकस्य प्रतिग्रहीतुम् । कदा-कल्पते ? तत्राह--'सव्वेहिं दुप्पयचउप्पयाइएहि आहारकंखीहि सत्तेहिं पडिनियत्तेहि सर्वेषु द्विपदचतुष्पदादिषु आहारकाङ्क्षिपु सत्वेषु-प्राणिषु प्रतिनिवृत्तेषु अन्नायउंछं सुद्धोवहडं जाव नो आहारज्जा' अज्ञातोंछं शुद्धोपहृतं यावत् नो आहरेत् , इत्यादि पदानि प्रतिपदालापकोक्तवद् व्याख्येयानि । "एवं तइयाए तिण्णि जाव पण्णरसीए पण्णरस' एवं तृतीयायां तिथौ तिम्रो यावत् पञ्चदश्यां पञ्चदश, पूर्वोक्तक्रमेण एकैकां दत्तिं वर्द्धयन् पञ्चदश्यां-पूर्णिमायां पञ्चदश दत्तीभोजनस्य, पञ्चदश पानकस्य प्रतिग्रहीतुं कल्पते । मासस्य शुक्लपक्षे दत्तीनां वर्द्धमानतामुपदर्य मासस्य कृष्णपक्षे दत्तीनां हासतां दर्शयितुमाह-'बहुलपक्खस्स' इत्यादि, 'बहुलपक्खस्स पाडिवए से कप्पइ चोदस दत्तीओ' वहुलपक्षस्य-कृष्णपक्षस्य प्रतिपदि प्रथमदिवसे तस्य-यवमध्यचन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य चतुर्दश दत्ती जनस्य तथा चतुर्दश दत्तीः पानकस्य प्रतिग्रहीतुं कल्पते इति भावः । एवम् 'वीयाए तेरस' द्वितीयायां त्रयोदश 'जाव' यावत्, यावत्पदेन तृतीयायां द्वादश, चतुर्थ्यामेकादश, पञ्चम्याम् दश, एवं क्रमेण हापयन् 'चोदसीए एगं दत्तिं भोयणस्स' चतुर्दश्यामेकां दत्तिं भोजनस्य 'एगं दतिं पाणगस्स' एकां दत्तिं पानकस्य प्रतिग्रहीतुं कल्पते । कदा ? इत्याह-'दुप्पयचउप्पयाइएहि' द्विपदचतुष्पदादिषु भोजनकाक्षिषु सत्त्वेषु-प्राणिषु प्रतिनिवृत्तेषु, इत्यादि 'जाव नो आहारेज्जा' यावत् नो आहरेत्, एतया एषणया एषयन् लभेत आहोत, एतया एषणया नो लभेत नो आहरेदिति पूर्ववद् व्याख्येयम्, ततः 'अमावासाए से य अभत्तद्वे भवई' अमावास्यायां-मासस्य चरमे दिवसे स च अभक्तार्थ, न भक्कमभक्तं-भोजनराहित्यं तदेव प्रयोजनं यस्य सोऽभक्तार्थः, उपोषितो भवतीति । 'एवं खल एसा जवमज्झचंदंपडिमा' एवमुपयुक्तप्रकारेण एषा-पूर्वप्रदर्शिता यवमध्यचन्द्रप्रतिमा 'अहामुत्तं' यथासूत्रम्-सूत्रानति
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy