________________
२३४
व्यवहार
बहुलपक्खस्स पाडिवए से कप्पइ चोद्दसदत्तीओ, बीयाए तेरस जाव चोदसीए एग दत्तिं भोयणस्स एगं पाणगस्स सव्वेहिं दुप्पयचउप्पयाइएहिं जाच नो आहारेज्जा, अमावासाए से य अभत्तढे भवइ । एवं खलु एसा जवमज्झचंदपडिमा अहामृत्तं अहाकप्पं अहामग्गं सम्मं कारणं फासिया-पालिया सोहिया तीरिया किदिया आणाए अणुपालिया भवइ ।। सू० २ ॥
छाया-यवमध्यां खलु चन्द्रप्रतिमां प्रतिपन्नस्थाऽनगारस्य शुक्लपक्षस्थ प्रतिपदि कल्पते एकां दत्ति भोजनस्य प्रतिग्रहीतुम पकां पानकस्य सर्वेढिपदचतुष्पदादिभिराहारकांक्षिभिः सत्त्वैः प्रतिनिवृत्तः अशातोंछ शुद्धोपहतं निर्युह्य वहन् श्रमण-माहना-ऽतिथिकृपण-वनीपकान् , कल्पते तस्यैकस्य भुजानस्य प्रतिग्रहीतुम् नो द्वयोः नो प्रयाणाम् नो चतुर्णाम् नो पञ्चानाम् , नो गुर्विण्याः नो वालवत्सायाः नो दारकं पाययन्त्याः, नो तस्य कल्पते, अन्तरेलुकस्य द्वावपि पादौ संहृत्य ददत्याः, नो बहिरेलुकस्य द्वावपि पादौ संहत्य ददत्याः, अथ पुनरेवं जानीयात् एकं पादमन्तः कृत्वा-एकं पादं वहिः कृत्वा पलुकं विष्कम्भयित्वा एतया एपणया एषयन् लमेत आहरेत्, पतया एपणया पपयन् नो लमेत नो आहरेत् । द्वितीयायां तस्य कल्पते द्वे दत्ती भोजनस्य प्रतिग्रहीतुम् द्वे पानकस्य सर्वे द्विपदचतुष्पदादिभिर्यावन्नो आहरेत् । एवं तृतीयायां तिम्रो यावत् पञ्चदश्यां पञ्चदश। बहुलपक्षस्य प्रतिपदि तस्य कल्पते चतुर्दश दत्तीः, द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेकां दत्ति भोजनस्य, एकां पानकस्य सर्द्विपदचतुष्पदादिभिर्यावत् नो माहरेत्, अमावास्यायां स चाभक्तार्थो भवति । एवं खलु एषा यवमध्यचन्द्रप्रतिमा यथासूत्र यथाकल्प यथामार्ग सम्यक् कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता आनयाऽनुपालिता अवति ॥ सू०२॥
भाष्यम्-'जवमज्झं णं चंदपडिम' यवमध्यां खलु चन्द्रप्रतिमाम् , यवमध्यचन्द्रप्रतिमायाः यवेन चन्द्रेण चोपमा यववन्मध्यभागः-पृथुलो यस्या सा यवमध्या। तथा,चन्द्राकारा प्रतिमा चन्द्रप्रतिमा- चन्द्रानुसारिणीत्यर्थः ।
___ अयं भावः-शुक्लपक्षस्य प्रतिपत्तिथौ चन्द्रविमानस्य पञ्चदशभागीकृतस्य एकैव कला दृश्या भवति, द्वितीयायां तिथौ द्वे कले चन्द्रविमानस्य दृश्येते, तृतीयायां तिस्रः, एवं पूर्णिमायां परिपूर्णाः पञ्चदशाऽपि कलाः दृश्यन्ते । ततः कृष्णपक्षस्य प्रतिपदि एकया कलया होनो दृश्यते चन्द्रस्य चतुर्दश कला दृश्यन्ते इत्यर्थः । द्वितीयायां तिथौ त्रयोदश कला दृश्यन्ते, तृतीयायां द्वादशैव, यावदमावास्यायामेकाऽपि कला न दृश्यते । तदेवमयं मासः आदौ ऊनः मध्ये संपूर्णः अन्ते पुनरपि परिहीनः । यद्वा-आदावन्ते च तनुको मध्ये विपुलः । एवं भिक्षुकोऽपि शुक्लपक्षस्य प्रतिपदि तिथौ एकां दत्तिं भिक्षाया गृह्णाति, द्वितीयायां शुक्लपक्षस्य द्वे गृह्णाति, तृतीयायां तिस्रो दत्तीः गृह्णाति यावत् पञ्चदश्यां पञ्चदश दत्तीगृह्णाति । कृष्णपक्षस्य प्रतिपदि पुनश्चतुर्दश दत्तीगुहाति, द्वितीयायां त्रयोदश, एवं क्रमेण यावत् चतुर्दश्याभेकैकोनत्वेन एकां दतिं गृह्णातीति तेन अमा