________________
भाष्यम् उ० १० सु० २
यवमध्यचन्द्रप्रतिमास्वरूपम् २३३ कल्याणकरं, मङ्गलं-मङ्गलस्वरूपं, दैवतं - धर्मदेवस्वरूपं, चैत्यं - ज्ञानस्वरूपं भवन्तं पर्युपासे' इत्युक्त्वा पर्युपासेत - समीपोपवेशनादिरूपामुपासनां कुर्यात् । ननु अनुलोमास्तु मनोगम्या भवन्ति तथाऽप्येते उपसर्गाः कथं भवेयुः, उपसर्गास्तु पीडोत्पादका भवन्तीत्यत्राह - प्रतिमाप्रतिपत्तितश्चलित करण हेतुकत्वादात्मनो भावपीडोत्पादकत्वादेते उपसर्गशब्देन संबोधिता भगवतेति । 'पड़िलोमा' प्रतिलोमाः - प्रतिकूला उपसर्गास्तावत् 'अन्नयरेण' अन्यतरेण ताडनसाधनानां मध्ये केनापि-अन्यतरेण एकेन, तथाहि - 'दंडेण वा' दण्डेन वा - लकुटेन, 'अट्टिणा वा ' अस्थ्ना वा अस्थिरूपताडनसाधनेन, 'जोत्तेण वा' जोत्रेण वा - जोत्रमिति गोवलीवर्दादिवन्धकस्थूलदवरिकारूपेण ‘वेत्तेणवा' वेत्रेण वा 'वेंत' इति लोकप्रसिद्धेन वा । 'कसेण वा' का वा 'चाबुक' इति लोकप्रसिद्धेन वा, एतादृशैस्ताडनसाधनभूतैः वस्तुभिः साधोः 'काएआउट्टेज्जा' कार्य--शरीरम्-आकुटयेत् ताडयेत् 'ते सव्वे उप्पन्ने' तान्- उपर्युक्तान् सर्वान् एव समुपस्थितान् ‘सम्मं’ सम्यग् मनोमालिन्य राहित्येन 'सहइ' सहते सहनं करोति 'खमइ' क्षमते सत्यामपि निवारणशक्तौ क्षमां करोति 'तितिक्खेइ' तितिक्षते - निर्जराभावेन सहते 'अधिया से ' अधिसहते अधि-निश्चलभावेन वासीचन्दनवृक्षवत् सहते । उक्तञ्च - वासीचंदणकप्पो, जह रुक्खो इय सुहदुहसमो उ ।
रागद्दोस विमुक्को, सहइ अणुलोम- पडिलोमे ॥ १ ॥ इति ॥ छाया—वासीचन्दनकल्पो, यथा वृक्ष इति सुखदुःखसमस्तु ।
रागद्वेषविमुक्तः, सहते अनुलोम-प्रतिलोमान् ॥ १ ॥ इति ॥ सू० १ ॥ अथ-यवमध्यचन्द्रप्रतिमायाः प्रतिपत्तिस्वरूपं प्रदर्शयति – 'जवमज्झं णं' इत्यादि ।
सूत्रम् - जवमज्यं णं चंदपडिमं पडिवरन्नस्स अणगारस्स स्रुक्क पक्खस्स पाडिवए कप्पइ एगं दर्त्ति भोयणस्स पडिगाहित्तए एगं पाणगस्स, सव्वेहिं दुप्पयचउप्पयाइएहिं आहारकंखीहिं सत्तेहिं पडिनियत्तेहिं अन्नायउंछं सुद्धोबहडं णिज्जूहित्ता वहवे समणमाहण-अहि- किवण-वणीमगा, कप्पड़ से एगस्स भुंजमाणस्स पडिगाहित्तए नो दोह नो तिनो चउण्ड नो पंचन्ह नो गुव्विणीए नो वालवच्छाए नो दारगं पेज्जमाणीए । नो से कप्पर अंतो एलुयस्स दोवि पाए साहट्टु दलमाणीए नो चाहिं एलयस दोवि पाए साइड दलमाणीए, अह पुण एवं जाणेज्जा एवं पायं अंतो किच्चा एगं पायं वाहिं किच्चा एलुयं विक्खंभइत्ता एयाए एसणाए एसमाणे लभेज्जा आहारेज्जा, एयाए एसणाए एसमाणे नो लभेज्जा नो आहारेज्जा विइज्जाए से कप दोणि दत्तओ भोयणस्स पडिगाढित्तए दोणि पाणगस्स, सव्वेहिं दुप्पयचउप्पयाइएहिं जाव नो आहारेज्जा । एवं तइयार तिण्णि जात्र पण्णरसीए पणरस ।
व्यं, ३०