________________
२२४
व्यवहारसूत्रे पइभिरुपवासै. पारयति-पारणां करोति 'अभोच्चा आरुभइ सोलसमेण पारेइ' अथ यदि अभुक्त्वाभोजनमकृत्वा आरोहति प्रतिमां प्रतिपद्यते तदा षोडशेन-षोडशभक्तेन सप्तभिरुपवासैः पारयति पारणां करोति । तत्र विधिमाह-प्रतिमासमाचरणकाले 'जाए जाए मोए आवियव्वे' जातं जातं मोकं मात्रकं प्रस्रवणमित्यर्थः आपातव्यम् , तत्रापि यत् 'दिया आगच्छइ आवियन्वे' दिवा-दिवसे आगच्छति मोक तत आपातव्यम् 'राई आगच्छइ नो आवियब्वे' यत् रात्रौ आगच्छति तद् नो आपातव्यम् रात्रौ वीर्यप्राणादेरदर्शनात् किन्तु परिष्ठापयितव्यम्, एवमग्रेऽपि योज्यम् । मोकं द्विविधं भवति-स्वाभाविक तदितरद्वा, तत्र स्वाभाविकं प्राणादिवर्जितं, तदितरत् प्राणादिसंमिश्रम् , तत्र स्वाभाविकं पातव्यम्, अस्वाभाविकं परिष्ठापनीयम्, तदेवाह-तत्रापि दिवसेऽपि यदि 'सपाणे मत्ते आगच्छइ नो आवियव्वे' सप्राणं जीवविशिष्टं मात्रकम् आगच्छति तदा नो आपातव्यं न पातव्यम्, 'अपाणे मत्ते आगच्छइ आवियन्वे' अप्राणम्-प्राणिविवर्जितं मात्रकमागच्छति तदा आपातव्यम् । सप्राणं मोकमेवं भवेत्-उदरे कृमयो भवेयुस्ते चोष्णप्रकृत्या तापिताः सन्तो मोकेन सार्द्धमागच्छेयुः, ताश्च छायायां निःसृजेत् , 'सवीए मत्ते आगच्छइ नो आवियन्वे' सबीजं वीजमिति वीर्यम् वीर्यविशिष्टं मात्रकमागच्छति तदा नो आपातव्यम्, 'अवीए मत्ते आगच्छई आवियन्वें' यदि अबीजं वीर्यरहितं मात्रकमागच्छति तदा आपातव्यम् । 'ससणिद्धे मत्ते आगच्छइ नो आवियव्वे' सस्निग्धं स्नेहविशिष्टं चिक्कणं मात्रकमागच्छति तदा नो आपातव्यम् , 'असणिद्धे मत्ते आगच्छइ आवियव्वे' अस्निग्धं चिक्कणतावर्जितं मात्रकम् आगच्छति तदा आपातव्यम् । शौक्राः पुद्गला द्विविधा भवन्ति-चिक्कणा अचिक्कणाश्च, तत्र अचिक्कणा वीर्यरहिता इत्यर्थ., चिक्कणाः सवीर्याः सस्निग्धा उच्यन्ते, ते उभयेऽपि देहस्य शैथिल्ये तपोजनितौष्ण्येन तापिताः सन्तो मोकेन सार्द्ध प्रपतन्तीति, 'ससरक्खे मत्ते आगच्छइ नो आवियव्वे' सरजस्कं रजोविशिष्टं प्रमेहरोगजन्यकणिकामिश्रितं मात्रकमागच्छति तदा न आपातव्यम् किन्तु परिष्ठापनीयम् 'असरक्खे मत्ते आगच्छइ आवियन्वे' अरजस्क रजोरहितं मात्रकमागच्छति तदा आपातव्यम् । तन्मोकं कियत्परिमितं पातव्यम् अल्पं वा सर्व वा ? तत्राह 'जाए जाए' इत्यादि, 'जाए जाए मोए आवियव्वे' जातं जातं मोकं मात्रकं सर्वमापातव्यम् । 'तंजहा' तद्यथा-'अप्पे वा बहुए वा' अल्पं वा बहुकं वा, तत्सर्व मोकं पातव्यम् । अथोपसंहरन्नाह
'एवं खलु एसा खुड्डिया मोयपडिमा अहासुत्तं' इत्यादि 'जाव अणुपालिया भवई' इत्यन्तम् , एवम् कथितप्रकारेण खल एपा क्षुद्रिका मोकप्रतिमा यथासूत्रं यथाकल्पं यथामार्ग यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता आज्ञया तीर्थकराज्ञया अनुपालिता भवति, एतेषां पदानां व्याख्या पूर्वसूत्रे गता ॥ सू० ४१ ।।