SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० ४१ क्षुद्रिका मोकप्रतिमायालनविधिः २२३ छाया - द्वे प्रतिमे प्रज्ञप्ते, तद्यथा क्षुद्रिका वा मोकप्रतिमा १, महतिका वा मोकप्रतिमा २ | क्षुद्रिकां खलु मोकप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते प्रथमशरत्कालसमये वा, चरमनिदाघकालसमये वा वहिः स्थापयितव्या, ग्रामस्य वा यावद्राजधान्या वा वने वा वनदुर्गे वा पर्वते वा पर्वतदुर्गे वा, भुक्त्वा आरोहति चतुर्दशेन पारयति, अभुआरोहति षोडशेन पारयति, जातं जातं मोकमापातव्यम्, दिवा आगच्छति आपा तव्यम्, रात्रौ आगच्छति नो आपातव्यम्, सप्राणं मात्रम् आगच्छति नो आपातव्यम्, अप्राणं मात्रम् आगच्छति आपातव्यम् सवीजं मात्रम् आगच्छति नो आपातव्यम्, अवीज़ं मात्रम् आगच्छति आपातव्यम्, सस्निग्धं मात्रम् आगच्छति नो आपातव्यम् अस्निग्धं अरजस्कं मात्रम् आगच्छति आपातव्यम्, सरजस्कं मात्रम् आगच्छति नो आपातव्यम्, मात्रम् आगच्छति आपातव्यम् । जातं जातं मोकमापातव्यम् तद्यथा - अल्पं वा बहुकं वा । एवं खलु पपा क्षुद्रिका मोकप्रतिमा यथासूत्रम् यथाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्त्तिता आज्ञया अनुपालिता भवति ॥ सू० ४१॥ 1 भाष्यम् – 'दो पडिमाओ पन्नत्ताओ' - द्विप्रकारिके प्रतिमे प्रज्ञप्ते कथिते, 'तंजहा ' - तद्यथा - 'खुड्डिया वा मोयपडिमा महल्लिया वा मोयपडिमा ' क्षुद्रिका वा मोकप्रतिमा महतिका वा मोकप्रतिमा । तत्र मोकं कायिकी, तत्प्रधाना प्रतिमा मोकप्रतिमा, मोचयति पापकर्मम्यः साधुमिति मोकं तत्प्रधाना प्रतिमा मोकप्रतिमा, अस्यां प्रतिमायां सिद्धायां कश्चिन्मुनिः कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति, देवो वा महर्द्धिको भवति, अथवा रोगाद्विमुच्यते शरीरेण कनकवर्णो जायते । उत्सर्गमार्गप्रधानेयं प्रतिमा, तां न कातरः पालयितुं शक्नोति । तत्र प्रथमं क्षुल्लिकामोकप्रतिमास्वरूपं प्रदर्शयति-‘खुड्डियं णं मोयपडिमं पडिवन्नस्स अणगारस्स' क्षुदिकां मोकप्रतिमां प्रतिपन्नस्य प्राप्तस्याऽनगारस्य साधोः ' कप्पर' कल्पते 'पढमसरयकालसमयंसि वा ' प्रथमशरत्कालसमये-शरत्कालस्य प्रथमसमये - मार्गशीर्षे 'चरम निदाहकालसमयंसि वा' चरम - निदाघकालसमये-उष्णकालस्य चरमसमये आपाढमासे 'वहिया ठावेयव्वा' बहिः स्थापयितव्या बहिर्गत्वा समाचरणीया, कस्य वहिरित्याह- 'गामस्स वा जाव रायहाणीए वा' ग्रामस्य वा याव - द्राजघान्या वा बहिः,यावत्पदेन - आकरनगर निगम खेटकर्वटमडम्बद्रोणमुखपत्तनाश्रम संवाह सन्निवेशानां संग्रहस्तेन आकरनगरादिराजधानीपर्यन्तानां वहिरिति भावः । कुत्र स्थाने ? इत्याह- 'वस वा वणदुग्गंसि वा' वने वा– एकजातीयवृक्षसमुदायरूपे, वनदुर्गे वा नानाजातीयसघन वृक्षसमुदायरूपे, 'पन्चए वा पव्वयदुग्गंसि वा' पर्वते वा प्रसिद्धे, पर्वतदुर्गे वा अनेकपर्वतसमुदायरूपे गत्वेयं क्षुद्रिका मोकप्रतिमा समाचारणीया भवेत् । भोच्चा आरुभइ' भुक्त्वा भोजनं कृत्वा आरोहति, तथाहि - मोकप्रतिमाप्रतिपन्नो मुनिर्निषद्यां चोलपट्टं कायिकींपात्रकं च गृहीत्वा ग्रामादेर्वहिर्गत्वा एकान्ते प्रतिमां प्रतिपद्यते । तत्र कायकोसमागमे तां मात्रके व्युत्सृज्यानापातेऽसंलोके दिशालोकं कृत्वा आपिबेत् । तां प्रतिमां यदि‘भोच्चा आरुभइ' भुक्त्वा स्वीकरोति तदा - 'चउदस मेणं पारेइ' चतुर्दशेनच-तुर्दशभक्तेन
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy