SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० ४३ पात्रधारिसंख्यादत्तिकभिक्षुकभिक्षाविधिः २२५ पूर्व क्षुद्रिकामोकप्रतिमा प्रदर्शिता, साम्प्रतं महती मोकप्रतिमा प्रदर्शयति-'महल्लिय' इत्यादि । सूत्रम्-महल्लियं णं मोयपडिमं पडिवन्नस्स अणगारस्स कप्पइ से पढमसरयकालसमयंसि वा चरम निदाहकालसमयंसि वा बहिया ठावियव्या, गामस्स वा जाव रायहाणीए वा वर्णसि वा वणदुग्गसि वा पव्वयंसि वा पव्ययदुग्गंसि वा, भोच्चा आरुभइ सोलसमेण पारेइ, अभोच्चा आरुभइ अहारसमेण पारेइ, जाए जाए मोए आवियन्वे तह चेव जाव अणुपा लिया भवइ ॥ सू० ४२ ॥ छाया-महती खलु मोकप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते तस्य प्रथमशरत्कालसमये वा चरमनिदाघकालसमये वा वहिः स्थापयितव्या ग्रामस्य वा यावद्राजधान्या वा वने वा वनर्दुर्ग वा पर्वते वा, पर्वतदुर्गे वा भुत्वा आरोहति षोडशेन पारयति, अभुक्त्वा आरोहति अष्टादशेन पारयति, जातं जातं मोकमापातव्यम् तथैव यावद् अनुपालिता भवति ॥ सू० ४२॥ भाष्यम्-'महल्लियं णं मोयपडिमं' महती खलु मोकप्रतिमाम् 'पडिवनस्स' प्रतिपन्नस्स-प्राप्तस्य 'अणगारस्स' मनगारस्य-श्रमणस्य 'कप्पई' कल्पते 'से' तस्य श्रमणस्य 'पढमसरयकालसमयसि वा' प्रथमशरत्कालसमये-मार्गशीर्पमासे वा 'चरमनिदाहकालसमयंसि वा' चरमनिदाधकालसमये वा-आषाढमासे वा 'वहिया ठावेयव्वा गामस्स वा जाव रायहाणीए वा' बहिः स्थापयितव्या-बहिः समाचरणीया भवति, कस्येत्याह-ग्रामस्य वा यावदाजधान्या वा 'वर्णसि वा वणदुग्गंसिया' वने वा-वनविषये वा वनदुर्गे-वनदुर्गविषये वा, 'पव्ययंसि वा पव्ययदुग्गंसि वा' पर्वते वा पर्वतदुर्गे वा श्रमणस्य प्रतिमां ग्रहीतुं कल्पते इति पूर्वेणान्वयः । अथ यदि श्रमणः 'भोच्चा आरुभइ' भुक्त्वा यदि प्रतिमामारोहति-स्वीकरोति तदा 'सोलसमेण पारेइ' षोडशेन-षोडशभक्तेन-सप्तोपवासरूपेण पारयति- पारणां करोति 'अभोच्चा आरुभइ अहारसमेणं पारेइ' अथ यदि अभुक्त्वा प्रतिमामारोहति-स्वीकरोति तदा-अष्टादशेन भक्तेन अष्टोपवासरूपेण पारयति-पारणां करोति, अस्या प्रतिमायाम् 'जाए जाए मोए आवियव्वे' जातं जातं मोकं कायिकीत्यर्थः, आपातव्यम् । 'तह चेव' तथैव -क्षुद्रिकाप्रतिमावदेव सर्वोऽपि आलापकोऽत्र ग्रहीतव्यः, कियत्पर्यन्तमित्याह-'जाव आणाए अणुपालिया भवइ' यावद् आज्ञया अनुपालिता भवति, इति पर्यन्तम् । अत्रस्थानां सर्वेषां पदानां व्याख्या क्षदिकामोकप्रतिमावत् कर्तव्या। एते द्वे अपि प्रतिमे धृतिबलसपन्नस्यैव भवति न तु कातरस्येति ॥सू० ४२॥ व्य. २९
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy