SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे mmmmmmmmmmmmmmmmmmmmmmm दत्तयः २८ । पञ्चमे सप्तके पञ्च पञ्च दत्तयः ३५, षष्ठे सप्तके षट् षट् दत्तयः ४२ । सप्तमे सप्तके सप्त सप्त दत्तयो गृह्यन्ते ४९ । इति सप्तभिः सप्तकैरेकोनपञ्चाशदिवसैर्जायते षण्णवत्यधिकमेकं शतम् (१९६) भिक्षादत्तीनामिति । ॥ सप्तसप्तकिकाभिक्षुप्रतिमाकोष्ठकम् ॥ - - संकलनम् दत्तिः दत्तिः दत्तिः مع | ع | س ا ه امام २८ दत्तिः दत्तिः दत्तिः ४२ ४९ संकलनम् | २८ संकलनम् २८ | २८ | २८ | २८ | २८ | २८ | १९६ एषा च सप्तसप्तकिका भिक्षप्रतिमा 'अहासुत्तं यथासूत्रम्-सूत्रमनतिक्रम्य यद् भवतितत् , सूत्रोक्तप्रकारान् अनतिक्रम्येत्यर्थः । 'अहाकप्पं' यथाकल्प-कल्पमनतिक्रम्य साधुकल्पानुसारमित्यर्थः । 'अहामग्गं' यथामार्गम् मार्गः-ज्ञान-दर्शन-चारित्ररूपः, तमनतिक्रम्य यद् भवति तत् , ज्ञान-दर्शन-चारित्राणामविराधनेनेत्यर्थः । 'अहातच्चं' यथातथ्यं , तथ्यं वास्तविकता, तद् अनतिक्रम्य-एकान्ततः सूत्रानुसारेण संपादितं सत्यतयेत्यर्थः । 'सम्मकाएणं' सम्यग्यथार्थतया कायेन कायग्रहणात् त्रिविधेनापि मनोवाक्काययोगेन ‘फासिया' स्पर्शिताविराधनारक्षणतः सेविता, 'पालिया पालिता सम्यग्रूपेण परिपालनात् , अत एव 'सोहिया' शोधिता ईपदपि अतिचाराभावत् 'तीरिया' तारिता तीरं-पारं-नीता-प्राप्ता पर्यन्तं नीतेत्यर्थः, 'किटिया' कीर्तिता-आचार्याणां पुरतः कथिता यथा मया प्रतिमा समाप्तेति, 'आणाए अणुपा: लिया भवई' आज्ञया-तीर्थकराज्ञया-तीर्थकराज्ञानुसारेण अनुपालिता-सम्यग्ररूपेण प्रतिपालिता भवति सा सप्तसप्तकिका भिक्षुप्रतिमा ॥ सू० ३७ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy