________________
भाष्यम् उ० ९. स० ३७
सप्तसप्तकिकाभिक्षुप्रतिमास्वरूपम् २१५
भाष्यम् -'सागारियस्स' सागारिकस्य 'अंवफला' आम्रफलानि शर्करादिशस्त्रपरिणताम्रफलानीत्यर्थः सचित्तानामकल्प्यत्वात् 'संथडा' संस्तृतानि अविभक्तानि यथा-अन्यस्य यत्राधिकारः शय्यातरस्याऽपि तत्राधिकारो भवेत् 'तम्हा दावए' तेभ्यस्तादृशेम्योऽचित्तफलखण्डेभ्यः साधवे दद्यात् तदा 'नो से कप्पइ पडिगाहित्तए' तादृशानि दीयमानानि आम्रखण्डानि न कथमपि 'से' तस्य श्रमणस्य प्रतिग्रहीतुं--स्वीकर्तुं कल्पते ॥ सू० ३५ ॥
अथ च यदि 'सागारियस्स' सागारिकस्याऽचित्तानि आम्रफलखण्डानि 'असंथडा' असंस्तृतानि-सागारिकभागरहितानि भवेयुः, तदा तन्मध्यादीयमानानि तान्याम्रफलानि साधूनां कल्पते ॥ सू० ३६ ॥
पूर्व शय्यातरपिण्डो न ग्राह्य इति प्रोक्तम् , तस्याऽग्रहणेऽज्ञातभिक्षाग्रहणरूपोऽभिग्रहो जातः, प्रतिमाऽपि चाभिग्रह एवेत्यभिग्रहप्रसङ्गात् प्रतिमाविधिमाह-'सत्तसत्तमिया णं' इत्यादि ।
सूत्रम्-सत्तसत्तमिया णं भिक्खुपडिमा एग्णपन्नाए राइदिएहिं एगेण छन्नउएणं भिक्खासएणं अहामुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मकाएणं फासिया पालिया सोहिया तीरिया किट्टिया आणाए अणुपालिया भवइ ॥ सू० ३७॥
छाया--सप्तसप्तकिका खलु भिक्षुप्रतिमा एकोनपञ्चाशता रात्रिदिवैरेकेन षण्णवतेन भिक्षाशतेन यथासूत्रं यथाकल्पं यथामार्ग यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता आश्या अनुपालिता भवति ॥ सू० ३७ ॥
भाष्यम्-'सत्तसत्तमिया णं भिक्खुपडिमां' सप्तसप्तकिका खल्ल भिक्षुप्रतिमा, तत्र- सप्त सप्तकानि विद्यन्ते यस्यां सा सप्तसप्तकिका, अथवा-सप्तभिः सप्तकैरन्तः समाप्तिर्यस्याः सा सप्तसप्तकिका, 'सत्तसत्तमिया' इत्यत्र ककारस्य मकारः प्राकृतत्वात् 'णं शब्दो' वाक्यालङ्कारे, सप्तसप्तकिका-सप्तसप्तकदिवसयुक्ता प्रतिमा (४९) एकोनपश्चाशदिवससंपाद्या प्रतिमेत्यर्थः । तदेवाह-सा च प्रतिमा-अभिग्रहविशेषरूपा सप्तसप्तकिका प्रतिमा, 'एगणपन्नाए राइंदिएहिं' एकोनपञ्चाशता रात्रिंदिवैः, सप्तानां सप्तभिर्गुणने जायन्ते एकोनपञ्चाशद्रात्रिन्दिवानि, तैः, तथा-'एगेण छन्नउएणं भिक्खासएणं' एकेन षण्णवतेन भिक्षाशतेन, दिनानां सप्तसप्तके एकोनपञ्चाशद् दिवसा भवन्ति, तत्र च पण्णवत्यधिकं भिक्षाशतं भवति । तथाहि-प्रथमसप्तके प्रतिदिनमेकैका दत्तिराहारस्य पानस्य च गृह्यते ७। द्वितीये सप्तके द्वे द्वे दत्ती १४ । तृतीये सप्तके तिस्रस्तिस्रो दत्तयः २१ । चतुर्थे सप्तके चतनश्चतस्रो