SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे छाया - सागारिकस्य औषधयः संस्तुताः ताभ्यो दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३३ ॥ सागारिकस्य औषधयोऽसंस्तृताः ताभ्यो दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३४ ॥ भाष्यम् – 'सागारियस्स' सागारिकस्य - शय्यातरस्य 'ओसहीओ' औषधयः--शालिव्रीहिगोधूमादयः, तन्निष्पादितानि भोज्यजातान्यपि औषधिशब्देन व्यवहियन्ते तेन शाल्यादिनिष्पादितानि भोज्यजातानि तदन्या वा ओषधयः सुण्ठयादयो या भवन्ति 'संथडाओ' संस्तृताः--सूपकाररसवत्यां सर्वसाधारणतया संस्कृताः पाचिताः साधारणा इति यत्राऽन्येपि स्वत्वान्नादिकं पाचयन्ति ततः सर्वेषां संमिलिता इत्यर्थः 'तम्हा दावए' तस्माद् - ओषधिसम्बन्धिभोजनजातात् सूपकारः श्रमणाय दद्यात् 'नो से कप्पइ पडिगाहित्तए' तादृशं दीयमानमन्नादिकं नो--नैव 'से' तस्य - श्रमणस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३३ ॥ अथ च या औषघयः असंस्तृताः असाधारणाः सागारिक भागरहिताः, विभज्य तन्मध्यात् शय्यातरभागो निष्कासितो भवेत्तादृशभोजनमध्याद् यदि सूपकारो दद्यात्तदा कल्पते साधूनां प्रतिग्रहीतुम् । अयं भावः — सूपकारस्य पाकशालायां विवाहादिविविधमहोत्सवप्रसङ्गे लोका विविधा औषधीः पाचयन्ति तत्र सागारिकोऽपि पाचयति, ता द्विप्रकारका भवन्ति संस्वृताः साधारणाः सर्वेषां भागयुक्ताः, असं स्तृताः - असाघारणाः अन्यभागरहिता इति । तत्र या औषधयः शय्यातरेण सह साधारणाः - शय्यातरेणाऽविभक्तीकृताः, ता औषघयो दीयमाना अपि साधूनां न कल्पते प्रतिग्रहीतुम्, सागारिकभागाविभक्तत्वेन तासां सागारिकपिण्डत्वस्यैव सद्भावात् । ता एव विभक्तीकृताः सागारिकपिण्डरूपा न भवन्ति ततश्च ताः प्रतिग्रहीतुं कल्पते साधूनामिति सूत्रयभावः ॥ सू० -३४ ॥ पूर्व मोषधिविषयं कल्प्या कल्प्य सूत्रमुक्तम्, साम्प्रतमाम्रफलान्यधिकृत्य कल्प्या कल्प्यविधि सूत्रद्वयेनाह - 'सागारियस्स' इत्यादि । सूत्रम् - सागारियस्स अंबफला संथडा तम्हा दावए नो से कप्पइ पडिगा - हित्तए || सू० ३५ || सागारियस्स अंबफला असंधडा तम्हा दावए एवं से कप्पइ पडिगाहित्तए ।। सू० ३६ ॥ छाया - सागारिकस्य--आम्रफलानि संस्तृतानि तेभ्यो दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३५ ॥ सागारिकस्य- आम्रफलानि असंस्कृतानि तेभ्यो दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् || सू० ३६ ॥ ૨૪ "
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy