________________
भाष्यम् उ० ९ सू० ३३-३६
औषध्याम्रफलग्रहणाग्रहणविधिः २१३ भाष्यम्-'सागारियस्स गोलियसाला' इत्यादीनि एकोनविंशतितमसूत्रादारभ्य द्वात्रिंत्तमसूत्रपर्यन्तानि चतुर्दश सूत्राणि चक्रिकाशालावत् प्रायः समानव्याख्यानानि सन्ति, तत्रै विषमपदव्याख्या प्रतन्यते-'गोलियसाला' गौडिकशाला-गुडविक्रयशाला ॥ सू० १९ ॥२०॥ 'बोधियसाला' वोधिकशाला-तन्दुलादिक्रयाणकविक्रयशाला ॥ सू० २१।२२ ॥ 'दोसियसाला' दौषिकशाला-वस्त्रविक्रयशाला ॥ सू० २३ ॥ २४ ॥ 'सोत्तियसाला' सौत्रिकशाला-सूत्रविक्रयशाला ॥सू० २५।२६ ॥ 'वोडयसाला' बोण्डजसाला-कर्षासविक्रयशाला ।। सू० २७।२८ ॥ 'गंधियसाला' गान्धिकशाला-गन्धद्रव्यविक्रयशाला ॥ सू० २९।३०॥ 'सोडियसाला' शौण्डिकशाला-'सुखडी'-तिप्रसिद्धमिष्टान्नविक्रयशाला कान्दविकापण इत्यर्थः ॥ सू० ३१३२॥ तथाविधा अन्या अपि शाला भवेयुः, तासु सर्वासु शालासु मध्ये या या 'साहारणवक्कयपउत्ता' साधारणावक्रयप्रयुक्ता--सागारिकभागयुक्ता भवेत्तन्मध्याहीयमानं किमपि गुडादिवस्तुजातं साधूना ग्रहीतुं नो कल्पते, तत्र सागारिकभागसत्त्वेन शय्यातरपिण्डदोषसद्भावात् । तथा-या या च 'निस्साहारणवक्कयपउत्ता' निस्साधारणावक्रयप्रयुक्ता-सागारिकभागवर्जिता स्वतन्त्रा गुडादिविक्रेतुरेव स्वाधीना न तु तत्र कस्याप्यन्यस्य सागारिकस्य वा आंशिकोऽपि भागो वर्तते, तस्या लाभादिग्राही तदधिकारी च स एक एव भवेत् , अथवा सागारिकव्यतिरिक्ता अनेके वा भागिनो भवेयुः किन्तु यत्र सागारिकभागो न भवेत्तादृश्याः शालाया मध्याहीयमानं गुडादिवस्तुजातं साधूनां प्रतिग्रहीतुं कल्पते, तत्र सागारिकभाग रहितत्वान्न तद्ग्रहणे दोषः । इत्येकोनविंशतितमसूत्रादारभ्य द्वात्रिंशत्तमसूत्रपर्यान्तानां चतुर्दशसूत्राणां तात्पर्यम् ॥ एषु चतुर्दशसु सूत्रेषु मध्ये सप्तसु प्रथम-तृतीय-पञ्चम-सप्तम-नवमै-कादश-त्रयोदश-रूपेषु(१९-२१. २३-२५-२७-२९-३१) शय्यातरभागसत्त्वात्तत्तच्छालातो दीयमानं वस्तुजातं साधूनामकलयम् । तथा सप्तसु-द्वितीय--चतुर्थ--षष्ठा-ऽष्टम-दशम-द्वादश-चतुर्दशरूपेषु (२०-२२-२४-२६२८-३-०-३२) शय्यातरभागराहित्येन तत्तच्छालातो दीयमानं वस्तुजातं साधूनां कल्प्यमिति चतुर्दशसूत्राशयः ॥ सू० १९-३२ ॥
पूर्व सागारिकशालामधिकृत्य कल्प्याकल्प्यविधिः प्रदर्शितः, साम्प्रतं सूपकाररसवत्यां पच्यमाना औषधीरधिकृत्य सागारिकाऽसागारिकाहारे कल्प्याकल्प्यविधि सूत्रद्वयेनाहै-'सांगारियस्स ओसहीओ' इत्यादि ।
सूत्रम्-सागारियस्स ओसहीओ संथडाओ तम्हा दावए नो से कप्पइ पडिगाहित्तए । सू० ३३ ॥
सागारियस्स ओसहीओ असंथदाओ तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥ सू० ३४ ॥