SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० ३८-३९ अष्टाष्टकिका-नवनवकिकामिक्षुप्रतिमानि० २१७. अथाष्टाष्टकिकां भिक्षुप्रतिमामाह-'अट्टअट्टमिया' इत्यादि। सूत्रम्-अट्टअट्टमिया णं भिक्खुपडिमा चउसट्टीए राइदिएहिं दोहि य अट्ठासीएहिं भिक्खासएहिं अहामुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मकाएणं फासिया पालिया सोहिया तीरिया किट्टिया आणाए अणुपालिया भवइ ।। सू० ३८॥ छाया-अष्टाष्टकिका खल्लु भिक्षुप्रतिमा चतुष्षष्टया रात्रिन्दिवैः द्वाभ्यां चाष्टाशोताभ्यां भिक्षाशताभ्यां यथासूत्रम् यथाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्त्तिता आशयाऽनुपालिता भवति ॥ सू० ३८ ॥ . भाष्यम्-'अटूअहमिया णं भिक्खुपडिमा' अष्टाष्टकिका-अष्ट अष्टकानि दिनानां प्रमाणं यस्यां सा अष्टाष्टकिका एतादृशी भिक्षप्रतिमा 'चउसट्ठीए राइदिएहि चतुष्षष्टया-चतुष्पष्टिकैः-चतु: प्पष्टिसंख्यकै रात्रिन्दिवै.-अहोरात्रैः, तथा 'दोहि य अट्ठासीएहिं भिक्खासएहि' द्वाभ्यामष्टाशीताभ्यां भिक्षाशताभ्याम् , तथाहि-अष्ट अष्टकानीति अष्ट अष्टभिर्गुणने चतुष्पष्टिरहोरात्राणि अस्याः सम्पन्नतायां भवन्ति । एषु चतुष्पष्टिसंख्यकेषु दिवसेषु प्रथमेऽष्टके एकैका दत्तिरिति अष्ट दत्तयः८, द्वितीयेऽष्टके द्वे द्वे दत्ती इति पोडश दत्तय. १६, तृतीयेऽष्टके तिम्रस्तिस्रो दत्तय इति । चतुर्विशतिर्दत्तयः २४, चतुर्थेऽष्टके चतस्रश्चतस्र इति द्वात्रिशद् दत्तयः ३२, पञ्चमेऽष्टके पञ्च पञ्चेति चत्वारिंशद्दत्तयः ४०, घष्ठेऽष्टके षट् पडिति अष्टचत्वारिंशदत्तयः ४८, सप्तमेऽष्टके सप्त सप्तेति षट्पञ्चाशद्दत्तयः ५६, अष्टमेऽष्टकेऽष्टाष्ट दत्तयो भिक्षाया इति चतुष्पष्टिदेत्तयः ६४) आसां सर्वसकलने चतुष्पष्टिदिवसैर्जाते अष्टाशीत्यधिके द्वे शते (२८८) भिक्षादत्तीनामिति । .. एतावद्विक्षादत्तिभिरेषा अष्टाष्टकिका भिक्षप्रतिमा यावदाज्ञयाऽनुपालिता भवति । शेष सर्व पूर्वसूत्रवदेव व्याख्येयम् । सू० ३८ ॥ ॥ अष्टाष्टकिकाभिक्षुप्रतिमाकोष्टकम् ॥ दत्तिः दत्तिः । २ । २ । २ दत्तिः |ur ocIWA || r3 २४ ३२ दत्तिः ४८ दत्तिः दत्तिः दात्त: दत्तिः ५६ ६४ ३६ | ३६ । ३६ | ३६ | ३६ । १९६
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy