________________
M
भाष्यम् उ० ९ सू० १०-१३ सागारिकज्ञातकाहारग्रहणाग्रहणविधिः २०५
सूत्रम्-सागारियस्स नायए सिया सागारियस्स एगवगड़ाए अन्तो सागारियस्स अभिनिप्पयाए सागारियं चोपजीवइ तम्हा दावए नो से कप्पइ पड़िगाहित्तए॥सू०१०॥
छाया--सागारिकस्य ज्ञातकः स्यात् सागारिकस्यैकवगडायाम् अन्तः सागारिकस्याभिनिप्रजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥१०॥
भाष्यम् –'सागारियस्स नायए सिया' सागारिकस्य-शय्यातरस्य ज्ञातकः-पूर्वोक्तस्वरूपः स्यात् स च 'सागारियस्स एगवगड़ाए अन्तो' सागारिकस्य-शय्यातरस्य-एकवगडायाम्-एकस्मिन् गृहे तदन्तःप्रदेशे एव निवसति, तथा-'सागारियस्स अभिनिपयाए' अभिनिप्रजायां तत्र-अभि-प्रत्येकं नि-नियता विविक्ता प्रजा अभिनिप्रजा पृथक्चुल्होत्यर्थः, तस्याम्, सागारिकादभिनिप्रजायाम्, सूत्रे पञ्चम्यर्थे षष्ठी आषत्वात् ततः सागरिकात् शय्यातरात् पृथक्चुल्हिकायां न्धनादिकं करोति किन्तु-'सागारियं चोवजीवइ' सागारिकमाश्रित्य चोपजीवति, शय्यातरस्यैव काष्ठलवणादिकं व्यवहरति । 'तम्हा दावए' तस्मात-सागारिकगृहस्थितपृथकचुल्लिकासंपादितभक्तपानादिकर्तस्वजनात् अन्नादिकं साधवे दद्यात् 'नो से कप्पड पडिगाहित्तए' तदप्याहारजातं नो-कथमपि न 'से' तस्य-श्रमणस्य कल्पते प्रतिग्रहीतुम् । यद्यपि-शय्यातरगृहे विद्यमानः स्वजनः पृथक् चुल्हिकायां रन्धनादिकं संपादयति तथापि शय्यातरस्य काष्ठादिकं व्यवहरतस्तस्य भक्तादिकमपि शय्यातरपिण्डत्वात् कथमपि साधुभिर्न ग्रहीतव्यमिति भावः ।। सू० १० ॥
सूत्रम्-सागारियस्स नायए सिया सागारियस्स एगवगड़ाए वाहि सागारियस्स एगपयाए सागारियं चोपजीवइ, तम्हा दावए नो से कप्पइ पाड़िगाहित्तए ॥ सू० ११ ॥
छाया-सागारिकस्य ज्ञातकः स्यात् सागारिकस्य एकवगडायां वहिः सागारिकस्यैकप्रजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ॥
भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य, 'नायए सिया' ज्ञातकः स्यात्, स च 'सागारियस्स एगवगडाए' सागारिकस्य-शय्यातरस्य एकवगड़ायाम्-एकस्मिन्-गृहे बहिःप्रदेशे 'सागारियस्स एगपयाए' सागारिकस्य-शय्यातरस्य-एकप्रजायाम्-एकस्यामेव चुल्हिकायाम् भोजनादिकं निष्पादयति 'सागारियं चोवजीवई' सागारिकमुपजीवति-शय्यातरप्रदत्तकाष्ठजलादिभिराहारं निष्पादयति 'तम्हा दावए' तस्मात् सागारिकोपजीविस्वजन