________________
२०४
व्यवहारसूत्रे
यतं दीयते, दासादीनां च हस्तोत्पाटितं नियतमेव दीयते, तथा आदेशाय सत्कारपुरस्सरं दीयते, न तथा दासादिकृते, तथा - आदेशस्य भोजनविधिसंपादनाय महान् प्रयत्नः ससंभ्रमं विधीयते, दासादीनांतु न तादृशः प्रयत्नः क्रियते, इत्यत आदेशस्य दासादेश्च सूत्राणां पृथक्करण मुचितमेवेति बोध्यम् ॥ सू० ७८ ॥
उपर्युक्तसूत्राष्टके आदेशादिविषयमधिकृत्य कथितम्, सम्प्रति ज्ञातकमधिकृत्यैकगृहविषयं सूत्रचतुष्टयमाह - 'सागारियस' इत्यादि ।
सूत्रम् - - सागारियस्स नायए सिया सागारियस्स एगवगडाए अंतो एगपयाए सागारियं चोवजीवs तम्हा दावए नो से कप्पर पडिगाहित्तए । सू० ९ ॥
छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्य एकवगडायामन्तः एकप्रजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सु० ९ ॥
भाष्यम् – 'सागारियस्स' सागारिकस्य - शय्यातरस्य, 'नाय ए सिया' ज्ञातकः - सागारिकस्वजनः स्यात्, तत्र—ज्ञातको नाम - स्वजनः पूर्वसंस्तुतः १, यदि वा पश्चात्संस्तुतः २, यदि वा उभयसंस्तुतः स्वजनः ३, तत्र पूर्वसंस्तुतः - मातापितृपक्षवर्ती १, पश्चात्संस्तुतः कलनपक्षगतः २, उभयसंस्तुतः - उभयपक्षवर्ती ३ भवेत्, 'सागारियस्स' सागारिकस्य - शय्यातरस्य ‘एगवगडाए' एकवगडायाम् - एकस्मिन् गृहे, तस्य गृहस्य -'अंतो' अन्तः- मध्ये, 'एगपयाए ' एकप्रजायाम्, तत्र प्रजानाम-चुल्ली, तदर्थस्तु - प्रकर्षेण जायते पाकनिष्पत्तिरस्यामिति प्रजाचुल्हो, तस्याम्, अथवा- 'एगपयाए' इत्यस्य एकपचायामिति च्छाया, तत्र पच्यते ओदनादिर्यत्र सा पचा चुल्हीत्यर्थः, एका पचा एकपचा तस्याम्, 'सागारियं चोपजीवइ' सागारिकं चोपनीवति, सागारिकमाश्रित्यैव जीवनयात्रां निर्वहति सागारिकस्य काष्ठलवणगोरसमुद्गादिसूपोदकाम्लशाकफलादिग्रहणपूर्वकमुपजीवति 'तम्हा दावए' तस्मात् - तादृशात् सागारिकसंबन्धिस्वजनाशनमध्याद् अशनादिकं दद्यात् 'नो से कप्पइ पडिगाहित्तए' नो तस्य-साधोस्तत् कल्पते प्रतिग्रहीतुम्, शय्यातरस्वजनपिण्डस्यापि शय्यातरवस्तुसंयोगात् शय्यातरपिण्डत्वदोष सद्भावात् ।
नतु- - शय्यातरस्य तज्ज्ञातकस्य च किमर्थमेका चुल्ही भवति ? तत्राह---यतस्तत्र चुल्हीकरं राज्ये गृह्णाति या या पृथक् चुल्ही भवति तस्यास्तस्याः करमपि पृथग् गृह्णातीति तत्रत्यराज्यनियमात् करभीता लोका एकस्यामेव चुल्हिकायां पाकक्रियां कृत्वा स्वस्वभागं सर्वे गृहान्ति ततस्तत्र शय्यातरवस्तु संमिश्रणप्रसङ्गात्स आहारोऽपि शय्यातर पिण्डदोषदूषितो भवेदिति न
कल्पते ॥ सू० ९ ॥