________________
भाष्यम् उ० ९ सू०२-६
सागरिकप्राघूर्णकादेराहारग्रहणाग्रहणविधिः २०१ यथारुचि भुज्यतां शेषं ममेत्येवं रूपेण दत्तान् भुङ्क्ते 'तम्हा दावए' तस्मात् परिनिष्ठितादिविशेषणविशिष्टौदनादिमध्यात् निष्कास्य यद् ददाति साघवे 'नो से कप्पई पडिग्गाहित्तए' नो-न तस्य- श्रमणस्य कल्पते प्रतिग्रहीतुं-स्वीकर्तुम् अत्यक्तसत्ताकत्वेन शय्यातरपिण्डत्वात् , अयं भावः-शय्यातरस्य प्रापूर्णकादिर्ग्रहेभुङ्क्ते, यं शय्यातरः प्राघूर्णकाद्यर्थ कृत्वा प्राघूर्णकाय अवशिष्टग्रहणप्रतिज्ञया प्रयच्छति तं प्राघूर्णको भुङ्क्ते, तद्भुक्तावशिष्टाहारमध्यादाहारं यय्यातरः साधवे यदि ददाति तदा तादृश आहारो न कल्पते साधूनाम् । यतः स आहारः शय्यातरेण प्राघूर्णकादिभ्यः प्रातिहारिको दत्तोऽतः स शय्यातरस्वत्वेन शय्यातरपिण्ड इति ॥ स्० १ ॥
पूर्व गृहान्त जिप्राघूर्णकादिसंवन्धिशय्यातरस्वत्वयुक्ताहारस्य निषेधः प्रोक्तः, साम्प्रतं शय्यातरस्वत्वरहिततादृशाहारस्य ग्रहणविधिमाह-'सागारियस्स' इत्यादि ।
सूत्रम्-सागारियस्स आएसे अंतो बगडाए भुंजइ निहिए निसिहे अपाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहेत्तए ॥ सू० २।
छाया-सागारिकस्य आदेशः अन्तर्वगडायां भुङ्क्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् , तस्मात् ददाति एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० २ ॥
भाष्यम्-'सागारियस्स' सागारिकस्य' इत्यादि पूर्वसूत्रवद् व्याख्येयम् , विशेषस्त्वयम्सागारिकस्य गृहे प्राघूर्णकादिर्यान् पदार्थान् भुङ्क्ते तान् पदार्थान् शय्यातरो यदि स्वस्वत्वनिवृत्तिपूर्वकं प्राघूर्णकादिभ्यो दद्यात् तदा साधोः प्रतिग्रहीतुं कल्पते तदेवाह-'अप्पडिहारिए' इत्यादि, 'अप्पडिहारिए' अप्रातिहारिकान् अपुनर्ग्रहणप्रतिज्ञया दत्तान् स प्राघूर्णकादिर्भङ्क्ते 'तम्हा दावए' तस्मात् परिनिष्ठितादिविशिष्टौदनादिभोजन जातमध्यात् साघवे दद्यात् , 'एवं से कप्पई पडिगाहित्तए' एवम्-अनेन प्रकारेण कल्पते तस्य साधोस्तादृशमाहारजातं प्रतिग्रहीतुम् । शय्यातरस्य प्रापूर्णकादिस्तस्य गृहे आहारजातं भुक्ते तद् गृहपतिना तदर्थ निप्पादितं तादृशमाहारजातं गृहपतिर्भोक्तुं प्राघूर्णकादिभ्यो दत्त्वा कथयेत्-भोजनानन्तरं यदवशिष्टं भवेत्रत् त्वदीयमेवेति, तत् प्राघूर्णकेन न पुनर्गृहपतये समर्पितं भवेत् , तदप्रातिहारिकमुच्यते तादृशमाहारजातं यदि प्राघूर्णकादिः साधवे दद्यात् तदा तादृशमाहारजातं साधूनां प्रतिग्रहीतुं कल्पते इति भावः ॥ सू० २ ॥
संप्रति शय्यातरस्य गृहबहिभोंजिप्राघूर्णकादिसंबन्धिभोजनजातस्य शय्यातरस्वत्वास्वत्वविषये निषेधं विधिं च सूत्रद्वयेनाह-'सागारियस्स आएसे' इत्यादि ।
व्य. २६