________________
॥ नवमोद्देशकः ॥ व्याख्यातोऽप्टमोद्देशकः, साम्प्रतं नवमः प्रारभ्यते-तंत्र अस्य नवमोद्देशकस्यादिसूत्रेण सहाऽष्टमोद्देशकस्य चरमसूत्रेण सह कः सम्बन्धः ? इति संबन्धप्रतिपादनार्थमाह भाष्यकार:'वुत्तो आहारो' इत्यादि । गाथा-बुत्तो आहारो अह, आएसो तं च तत्थ जइ भुंजइ ।
साहूण तग्गहणे, कप्पाकप्पस्स एत्थ विही ॥१॥ छाया- उक्त आहारः अथ आदेशस्तं च तत्र यदि भुङ्क्ते ।
__ साधूनां तद्ग्रहणे, कल्प्याकल्प्यस्य अत्र विधिः ॥१॥ व्याख्या-'वुत्तो' इति । अष्टमोद्देशकस्य चरमसूत्रे 'आहारो वुत्तो' आहार उक्तः, आहारप्रमाणं प्रतिपादितम् , तं चाहारम् आदेशः आदिश्यते-सत्कारपुरस्सरम् आहूयते यः स आदेशः-प्राघूर्णकः, ज्ञातकः, स्वजनः, मित्रं, कुलगुर्वादिप्रभु', परतीथिको वा 'तत्थ' इति-तत्र सागारिकगृहे भुक्ते तदा 'तग्गहणे' तद्ग्रहणे- तस्य तन्निमित्तं कृतस्य ग्रहणे 'साहूर्ण' साधूनाम् 'कप्पा-कप्पस्स' एत्थ विही कल्प्याऽकल्प्यस्य 'एत्य' अत्र-नवमोद्देशकस्यादिसूत्रे विधिः प्रोच्यते ॥१॥
एष एव सम्बन्धः, अनेन सम्बन्धेन आयातस्य नवमोद्देशकस्येदमादिमं सूत्रम्'सागारियस्स' इत्यादि।
सूत्रम्-सागारियस्य आएसे अन्तो वगडाए मुंजइ निहिए निसिडिए पाडिहारिए तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ॥ सू० १॥
छाया—सागारिकस्य आदेशः अन्तर्वगडावां भुङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्माद् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १॥
भाप्यम् –'सागारियस्स' इति । 'सागारियस्स' सागारिकस्य-शय्यातरस्य, य उपाश्रयस्याऽऽज्ञां ददाति स सागारिक. कथ्यते, तस्य 'आएसे' आदेशः यः सत्कारपुरस्सरमादिप्टः-आहूत. स आदेशः कथ्यते, आवेशोवा-य आविशति-भोजनार्थ गृहे प्रविशति स
आवेशः भोजनार्थ गृहमागतः, स च प्राघूर्णकादिः 'अंतो वगडाए' अन्तर्वगडायाम्, तत्र वगडानाम-परिक्षेपः गृहमित्यर्थः, तस्य अन्तर्मध्ये-गृहमप्ये 'भुजई' मुक्त पदार्थान् ओदनादीन् , किंविशिष्टान मोदनादीन् भुङ्क्ते । तत्राह-'निट्टिए' निष्ठितान्-निष्ठां नीतान् प्राघूर्णकाद्यर्थ निप्पादितान् इत्यर्थः 'निसिट्टिए' निसृष्टान्-प्रापूर्णिकादिभ्यो दत्तान् , निष्ठितनिसृष्टयोरयं भेद.-यत् प्रथमं रन्धनक्रियायाम् , द्वितीयं तु-दानक्रियायाम् , प्राघूर्णकाद्यर्थं पाचितवान् , तदर्थ दत्तान् , प्रातिहारिकान्-शय्यातरेण प्रातिहारिकरूपेण दत्तान् , शय्यातरः प्राघूर्णकादीन् वक्ति