________________
भाग्यम् ३०८ ० ८-११
शय्यासंस्तारकावग्रहानुज्ञापनाविधिः १९१
भाष्यम् – 'नो कप्पड़' नो कल्पते 'णिग्गंधाण वा' निर्मन्थानां वा 'णिग्गंथीण वा' निर्ग्रन्थीनां वा, 'पाडिहारियं वा' प्रातिहारिकं वा कार्यानन्तरं प्रत्यावर्त्तनीयम् ' सागारियसंतियं वा' सागारिकत्सकं वा - शय्यातरसम्बन्धि वा 'सेज्जासंथारगं' शय्या संस्तारकम् - पीठफलकादिकम् 'सवप्पणा अप्पिणित्ता' सर्वात्मना सर्वस्वत्वनिवृत्तिपूर्वकं यथा स्यात् तथा वस्तुस्वामिने समर्प्य यदि दत्तोपकरणस्य पुनरप्यावश्यकता भवेत् तदा 'दोच्चंपि द्वितीयमपि वारम् 'ओग्गहं अणणुन्नवेत्ता' अवग्रहमननुज्ञाप्य - पुनरपि आज्ञामनादाय ' अहिट्टित्तए' अधिष्ठातुम् पुनस्तस्योपकरणस्योपभोगं कर्त्तुं न कल्पते । तर्हि कथं कल्पते ? तत्राइ - ' कप्पड़ ' इत्यादि, 'कप्पइ अणुन्नवेत्ता' कल्पतेऽनुज्ञाप्य - आज्ञामादाय उपभोक्तुं कल्पते इति भावः ॥ सू० ८ ॥
पूर्वसूत्रे पीठफलकादिकमाश्रित्य विधिनिषेधौ कथितौ सम्प्रति - उपाश्रयमाश्रित्य ग्रहणाग्रहणयोर्विधिनिषेधौ कथयितुमाह- 'नो कप्पइ' इत्यादि ।
सूत्रम् - नो कप्पड़ निग्गंथाण वा निग्गंथीण वा पुव्वामेव ओग्गह ओगिहित्ता तओ पच्छा अणुन्नवेत्तए | सू० ९ ॥
छाया -- नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमेव अवग्रहमवगृह्य ततः पश्चात् अनुज्ञापयितुम् ॥ सू० ९ ॥
-
भाष्यम् – 'नो कप्पर' नो कल्पते 'णिग्गंथाण वा' निर्ग्रन्थानां वा 'णिग्गंथीण वा ' निर्ग्रन्थीनां वा ‘पुव्वामेव' पूर्वमेव - आज्ञा ग्रहणात्पूर्वकाल एव 'ओग्गहं ओगिण्डित्ता' अवग्रहमवगृह्य-पीठफलकादिक गृहीत्वा 'तओ पच्छा' ततः पश्चात् - तदनन्तरम् ' अणुन्नवेत्तए ' अनुज्ञापयितुम्–आज्ञां ग्रहीतुं न कल्पते । अयं भावः – पूर्वं वस्तुस्वामिसकाशात् पीठफलकादि प्राप्त्यर्थम् अनुज्ञा ग्रहीतव्या । आज्ञां विनैव किमपि वस्तुजातं गृहीत्वा तदनन्तरं तद्विषये आज्ञां गृह्णीयात्तन्न कल्पते, अदत्तादान दोषापत्तेः, एवं करणे श्रावक संयतयो. कलहसम्भवोऽपि ॥ सू० ९ ॥
पूर्वं वस्तु स्वायत्तीकृत्य पश्चादनुज्ञापनं निषिद्धम्, सम्प्रति तद्विपर्यये सुत्रमाह - ' कप्पड़' इत्यादि ।
सूत्रम् - कप्पर णिग्गंथाण वा णिग्गंथीण वा पुव्वामेच ओग्गह अणुन्नवेत्ता तओ पच्छा ओगिण्डित्तए ॥ सू० १० ॥
छाया –— कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमेवाऽवग्रहमनुब्राप्य ततः पश्चाद् अवग्रहीतुम् ॥ सू० १० ॥