SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९० व्यवहारस्त्रे नीतम् , 'सागारियसंतियं वा' सागारिकसत्कं वा-शय्यातरसम्बन्धि वा यदुपाश्रये स्थितं, यद् अन्यसत्कं वा तस्य शय्यातरस्य तदन्यस्य वा सबन्धि यत् 'सेज्जासंथारग' शय्यासंस्तारकम् पीठफलकादिकमुपकरणजातं तद् यदि पूणे मासे बहिन्यत्र गन्तुकामो मुनिर्यत् शय्यातरादिदत्तं शय्यातरादिसंबन्धि वा तत्र पूर्वोपाश्रये स्थितं शय्यातरादिसंस्तारकमन्यत्राऽलामसंभवे बहिर्नेतुमिच्छेत्तदा पूर्वमवग्रहोऽनुज्ञापितोऽपि 'दोच्चंपि' द्वितीयमपि वारं पुनरपीत्यर्थः 'ओग्ग अणणुन्नवेत्ता' अवग्रहमननुज्ञाप्य पीठफलकादिस्वामिन आज्ञा न गृहीत्वा 'वहिया नीहरित्तए' वहि मान्तरादौ पीठफलकादि निर्हर्तुम्-नेतुं न कल्पते इति सम्बन्धः । अयं भावः-कोऽपि साधुः साध्वी वा पूर्णे मासेऽन्यत्र गन्तुमिच्छेत्तदा-अन्यत्र तदलाभसम्भवे तस्य तस्या वा शय्यातराऽन्यश्रावकसम्वन्धिपीठफलकादेः पूर्वमाज्ञा गृहीताऽपि बहिर्नयनसमये पुनर्द्वितीयवारमपि पीठफकादिस्वामिन आज्ञामन्तरेण वसतेबहिस्तादृशमुपकरणजातं नीत्वा गन्तुं न कल्पते इति ॥ सू० ५ ॥ पूर्व पूर्वगृहीतशय्यासंस्तारकस्याऽऽज्ञामन्तरेणाऽन्यत्र नयनं निषिद्धम् , सम्प्रति अन्यत्र तदलामे किं कर्त्तव्यमिति तद्विधिमाह --'कप्पई' इत्यादि । सूत्रम्-कप्पइ णिग्गंथाण वा णिगंथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं दोच्चंपि ओग्गहं अणुन्नवेत्ता वहिया नीहरित्तए ॥ सू० ७॥ छाया- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसत्कं वा शय्यासंस्तारकं द्वितीयमपि अवग्रहमनुशाप्य बहिनिहर्तुम् ॥सू० ७॥ - भाष्यम्-अत्रास्मिन् सूत्रे पूर्वोक्तं शय्यासंस्तारकमाज्ञामादाय वहिर्नेतु कल्पते, एतावानेव विशेषः, शेषं पूर्ववदेव ॥ सू० ७ ॥ शय्यासंस्तारकस्य समर्पणानन्तरं तस्य पुनर्ग्रहणे - निषेधमाह-'नो कप्पई' इत्यादि । सूत्रम्-नो कप्पइ णिग्गंधाण वा णिग्गंथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं सम्बप्पणा अप्पिणित्ता दोच्चंपि ओग्गहं अणणुन्नवेत्ता अहिहित्तए, कप्पइ अणुन्नवेत्ता ॥ सू० ८ ॥ छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिक वा सागारिकसत्क वा शय्यासंस्तारकं सर्वात्मना-अर्पयित्वा, द्वितीयमपि वारम् अवग्रहम ननुक्षाप्या. ऽधिष्ठातुम् , कल्पतेऽनुशाप्य ॥ सू० ८॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy