________________
भाज्यम् उ० ८ सू० ५-७
स्थविराणामुपकरणप्रकारविधि १८९
खेलसम्बन्धिपात्रम् 'लट्ठियं वा' यष्टिका- िद्विहस्तप्रमाणा यदालम्बनेन गम्यते ताम् 'भिसे वा' 'भिस' इति मुनीनामुपवेशनपट्टिका,या माश्रित्योपविशति ताम्, 'चेले वा' चेलं वा-चेलं-देहाच्छादनवस्त्रं 'पछेवडी' 'चादर' इति प्रसिद्धम् , 'चेलचिलिमिलि वा' वस्त्रनिर्मितां जवनिकां, 'चम्मे वा' चर्म वा तत्र चर्म–सूचिकया वस्त्रसन्धानसमये अंगुलीरक्षाथ चर्मनिर्मिताङ्गुलीयकं वा, 'चम्मकोसे वा' चर्मकोषं चर्मकुत्थलिकां या कण्टकोद्धरणकण्टकरक्षणार्थ ध्रियते ताम् , 'चम्मपरिच्छेयणए वा' चर्मपरिच्छेदनकं वा चर्मवेष्ठनकम् , एतानि वस्तूनि 'अविरहिए ओवासे' अविरहितेऽवकाशे स्थापयित्वा तत्र-अविरहिते-जनविरहवर्जिते यत्र जना गृहपतिर्वा वर्त्तते तत्र निरापदि अवकाशे प्रदेशे 'ठवेत्ता' स्थापयित्वा 'गाहावइकुलं' गाथापतिकुलं गृहस्थगृहम् 'भत्ताए वा पाणाए वा' भक्ताय वा पानाय वा-मक्तपानादिप्राप्तये 'पविसित्तए वा' प्रवेष्टुं वा-गाथापतिगृहे प्रवेशं कर्तुम् 'निक्खमित्तए वा' निष्क्रमितुं वा-प्रविष्टानां प्रत्यावर्तितुं वा कल्पते इति पूर्वेण सम्बन्धः । स्थविरादिकारणेन कल्प्यत्वेन प्रतिपादितानि दण्डादिवस्तूनि अशून्ये गृहादौ स्थापयित्वा भिक्षाचर्याथै गृहस्थगृहे गमनं कल्पते न तु तानि गृहीत्वेत्यर्थः । भिक्षातः पूर्वं यद् यद् वस्तु दण्डादिकं गृहस्थगृहे स्थापितं तत् पुनर्गृहस्थाज्ञामादायैव उपभोक्तुं कल्पते इत्याह-'कप्पई' इत्यादि, 'कप्पइ व्ह' कल्पते खलु 'संनियहचाराणं' संनिवृत्त चाराणाम्-संनिवृत्तः-प्रतिनिवृत्तः चारः-चरण-भ्रमणं येषां ते संनिवृत्तचारास्तेषाम्-भिक्षाचर्यातः प्रत्यागतानामित्यर्थः स्थविराणाम् 'दोच्चंपि' प्रथमं तु आज्ञया गृहीतान्येवेति प्रथमतः 'दोच्चंपि' इति कथितम् , द्वितीयमपि वारम् 'ओग्गह' अवग्रहम् , 'अणुनवेत्ता' अनुज्ञाप्यअनुज्ञामादायेत्यर्थः 'परिहारं' परिहारम्-उपभोग्य वस्तुजातम् 'परिहरित्तए' परिहर्तुम् - धारणेन-परिभोगेन चोपभोक्तुं कल्पते, स्वस्य स्थापितस्यापि वस्तुनः पुनर्ग्रहणसमये श्रमणै गुंहस्थाज्ञा अनुज्ञातव्येति भाव. ॥ सू० ५ ॥
___ पूर्व स्थविरानधिकृत्योपकरणग्रहणस्थापनविधिरुक्तः, साम्प्रतमुपाश्रयस्थितशय्यासंस्तारकस्यान्यत्र नयने निषेधमाह-'नो कप्पइ णिगंयाण वा' इत्यादि ।
सूत्रम्-नो कप्पइ णिग्गंथाण का णिग्गंधीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं दोच्चंपि ओग्गई अणणुन्नवेत्ता वहिया नीहरित्तए । सू० ६॥
छाया—नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसत्कं वा शय्यासंस्तारकं द्वितायमपि वारमननुशाप्य वहिनिहर्जम् ॥ सू० ६ ॥
भाष्यम्-'नो कप्पई' नो कल्पते 'णिग्गंथाण वा णिग्गथीण वा' निम्रन्थानां वा निम्रन्थीनां वा 'पाडिहारियं वा' प्रातिहारिकं वा अल्पकालायोपभोगार्थं गृहस्थगृहादा