________________
raamanna
~
ज्यवहारसूत्रे भाष्यम् –'कप्पई' कल्पते- 'णिग्गथाण वा' निम्रन्थानां वा 'णिग्गथीण वा' निर्मन्थीनां वा 'पुन्वामेव ओग्गई अणुन्नवत्ता पूर्व प्रथमम् वस्तुग्रहणात् प्रागेव अवग्रहम् अनुज्ञाप्य-श्रावकेभ्यः पीठफलकादिग्रहणविषयिणीमाज्ञामादाय 'तओ पच्छा' ततः पश्चात्-अनुज्ञापनानन्तरम् , 'ओगिण्हित्तए' अवग्रहीतुम्-पीठफलकादि ग्रहीतुं कल्पते इति ।। सू० १० ॥
पूर्वमाज्ञामादाय पश्चात् पीठफलकादि ग्रहीतव्यमित्युक्तम् , सम्प्रति पीठफलकादीनामन्यप्रालाभे किं कर्त्तव्यमिति तद्विधिमाह-'अह पुण' इत्यादि ।
सूत्रम्-अह पुण एवं जाणेज्जा इह खलु णिग्गथाण वा णिग्गथीण वा णो सुलभे पाडिहारिए सेज्जासंथारए-त्ति कटु एवं हं कप्पइ पुवामेव ओग्गह ओगिण्हित्ता तओ पज्छा अणुन्नवेत्तए, मा दुहओ अज्जो ! वइ अणुलोमेण अणुलोमियव्वे सिया ॥ सू० ११॥
छाया--अथ पुनरेवं जानीयात् इह खलु निम्रन्थानां वा निग्रन्थीनां वा नो सुलभं प्रातिहारिकं शय्यासंस्तारकम् , इति कृत्वा खलु कल्पते पूर्वमेव अवग्रहमवगृह्य ततः पश्चात् अनुज्ञापयितुम्, मा द्विधात आर्याः ! वदत अनुलोमेन अनुलोमयितव्यः स्यात् ॥ सू० ११॥
भाष्यम्-'अह पुण एवं जाणेज्जा' अथ यदि कदाचित् पुनः एवमेतज्जानीयात् , किं जानीयात्तत्राह-इहेत्यादि, 'इह खलु' इह-अत्र ग्रामादौ खल 'णिग्गथाण वा' निर्ग्रन्थानां वा, 'णिग्गथीण वा' निर्ग्रन्थीनां वा, 'नो सुलभे नो सुलभः-न सुखेन लभ्यः-सरलतया न प्राप्तव्यः 'पाडिहारिए सेज्जासंथारए' प्रातिहारिकं शय्यासंस्तारकं पीठफलकादिकमुपकरणजातम् ऋतुबद्धकालग्राह्यं वर्षाकालग्राह्यं वा, 'त्ति कटु' इति कृत्वा-इति विज्ञाय ‘एवं ण्हं कप्पइ' एवम् अनेन कारणेन खलु 'कप्पई' कल्पते, 'पुवामेव ओग्गहं ओगिंण्डित्ता' पूर्वमेवाऽनुज्ञापनतः प्रथममेव अवग्रहं-पीठफलकस्थानकादिकमवगृह्य-गृहीत्वा 'तो पच्छा' ततः पश्चात्-अवग्रहग्रहणानन्तरम् 'अणुन्नवेत्तए अनुज्ञापयितुम्-अनुज्ञा ग्रहीतुम् । प्रथममवग्रहग्रहणं कर्त्तव्यम् तदनन्तरमनुज्ञापना कर्त्तव्येत्यर्थः, एवं करणे यदि तददाने साधुसंयतानां विवादो भवेत्तदा आचार्याः श्रमणान् प्रति बुवते-'मा दुइ ओ अज्जो वई' मा हे आर्याः ! द्विधातो वदत, एकं तु-अस्य शय्यासंस्तारकं वसतिं वा गृहीथ द्वितीयं परुषाणि भाषध्वे, हे आर्याः । अयं गृहस्वामी एतदाज्ञयैव वस्तुजातं ग्रहीतव्यम् इति परम्पराप्राप्तो मुनीनां व्यवहारस्तस्मात् क्षमध्वम् , इत्यादिना 'अणुलोमेण' अनुलोमेन-अनुकूलेन वचसा, यदि भवद्भिः कारणवशाद् गृहस्वामिन अज्ञामन्तरेण वसत्यादिवस्तुजातस्य ग्रहणं कृतम् तदाऽनेन गृहस्वामिना सह