________________
१८६
ग्यवहारसूत्रे यस्मिन् गृहे ऋतुबद्धेकाले निवसति तस्मिन् गृहे 'ताए पएसाए' तस्मिन् प्रदेशे यस्मिन् गृहप्रदेशे तिष्ठति तस्मिन् प्रदेशे-अन्तर्वहिरादिलक्षणे 'ताए ओवासंतराए' तस्मिन् अवकाशान्तरे-द्वयोर्मध्यभागलक्षणे 'जमिणं जमिणं सेज्जासंथारगं लभेज्जा' यदिदं यदिदं शय्यासंस्तारकम्-शय्या च संस्तारकश्चेति समाहारे शय्यासंस्तारकम् यद् यत् शयनोपयोगि स्थानं मदभिलषितं लभेत-प्राप्नुयात् 'तमिणं तमिणं ममेव सिया' तदिदं तदिदं सर्वं ममैव स्यात्भवतु, इति व्रते श्रमणस्तदा यदि 'थेरा य से अणुजाणेज्जा' स्थविराश्च गच्छनायका आचार्याः तस्याशठभावम् अवगम्य, अशठेभावो नाम-मम श्लेष्मा प्रस्पन्दते स्वपतो मम श्लेप्माधिक्यं जायते अतो निर्वातस्थानमनुजानीत, अथवा अमुकं साधुमहं सदैव प्रतिपृच्छामि तत एतत्पाश्र्वे मम शल्यासंस्तारकभूमि यूयमनुजानीत, इत्यादिविषये तस्य ऋजुभावं ज्ञात्वा 'अणुजाणेज्जा' अनुजानीयुः-आज्ञां दद्यः, यथा-'यदिदं यदिदं त्वया लब्धं तत्सर्व शय्यासंस्तारकं तवैव भवतु' तदा तत्सर्व शय्यासंस्तारकम् 'तस्सेव सिया' तस्यैव-यो हि श्रमण एवं ब्रूते-ममेदं सर्व तस्यैव तत् शय्यासस्तारकं स्यात्-भवेत् । अथ यदि कदाचित् याचकस्य श्रमणस्य पूर्वोक्तविषये शठभावो लक्ष्यते तदा 'थेरा य से णो अणुजाणेज्जा' स्थविराश्च तस्य श्रमणस्य शठभावेन कथनात् नो अनुजानीयुः-नाज्ञां दधुः तदा ‘एवं से कप्पइ अहारायणियाए' एवम् स्थविराज्ञाया अभावे तस्य कल्पते यथारानिकतया .रत्नाधिकमर्यादया यल्लभ्यते तत् 'सेज्जासंथारगं पडिग्गाहित्तए' शय्यासंस्तारकं प्रतिग्रहीतुम्-स्वीकत्तुं कल्पते, न तत्रेतस्ततः कर्त्तव्यमिति भावः । ऋतुवद्धे काले वर्षाकाले वा गृहे वसन् साधुः तत्र गृहे तत्प्रदेशे तदवकाशान्तरे वा यद् यत् शय्यासंस्तारकं लभते तत्तत् सर्व स्थविरानुज्ञयैव लघुज्येष्ठादिमर्यादया प्रतिग्रहीतुं कल्पते न तु स्वेच्छयेति तात्पर्यम् ॥ सू० १॥
पूर्व शय्यासंस्तारकस्थानविघिरुक्तः, सम्प्रति शय्यासंस्तारकगवेषणविधिमाह-'से य' इत्यादि ।
सूत्रम्-से य अहालहुस्सगं सेज्जासंधारगं गवेसेज्जा जं चक्किया एगेणं हत्थेणं ओगिज्झ जाव एगाई वा दुयाहं वा तियाई वा परिवहित्तए एस मे हेमंतगिम्हासु भविस्सइ ॥ सू० २॥
छाया--स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् एकेन हस्तेनाऽवगृह्य यावदेकाहं वा द्वयह वा व्यहं वा अध्वानं परिवोढुम् , एतन्मे हेमन्त-- ग्रीष्मेषु भविष्यति ॥ सू० २॥