________________
भाष्यम् उ० ८ सू०२-५
अस्पभारशय्यासंस्तारकग्रहणविधिः १८७ भाष्यम्-'से य' स च भिक्षुः 'अहालहुस्सगं' यथालघुस्वकम्-एकान्ततो लघुकमिति यथालघुस्वकम् अत्यन्ताऽल्पभारमित्यर्थः 'सेज्जासंथारगं' शय्यासंस्तारकम् तत्र शय्या शरीरप्रमाणा संस्तारकः सार्घतृतीयहस्तप्रमाणकः, उभयोः समाहारे शय्यासंस्तारकं तत् 'गवेसेज्जा' गवेषयेत् , कीदृशं यथालघुस्वकम्-'जं चक्किया एगेण हत्थेण ओगिज्झ' यत्-यादृशं शय्यासंस्तारकं शक्नुयात्-समर्थो भवेत् एकेन हस्तेनाऽवगृह्य-गृहीत्वा 'जाव एगाहं वा दयाहं वा तियाहं वा' यावदेकाहम्-एकविश्रामपर्यन्तम्, द्वयहम्-द्विविश्रामम् त्र्यहम्त्रिविश्रामं यावत. 'अद्धाणं परिवहिचए' अध्वानम्-मार्ग परिवोढुं शक्नुयात् । 'अहन्'शब्दोऽत्र विश्रामवाचकः आहारशय्यासंस्तारकादेः क्रोशद्वयादुपरि नयनस्य शास्त्रे प्रतिष्ठिद्धत्वादिति । किमर्थमेवं कुर्यात् ! तत्राह-'एस मे हेमंतगिम्हासु भविस्सइ' एतन्मे शयासंस्तारकं हेमन्तग्रीष्मेषु-हेमन्तग्रीष्ममासेषु उपयोगि भविष्यति ॥ सू० २ ॥
एतदेव वर्षावासमधिकृत्याऽऽह ‘से य' इत्यादि ।
सूत्रम-से य अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एगेण हत्थेण ओगिज्झ जाव एगाई वा दुयाह वा तियाहं वा अद्धाणं परिवहित्तए, एस मे वासावासासु भविस्सइ ॥ सू०३॥
छाया-स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् एकेन.. हस्तेनाऽवगृह्य यावत् एकाहं वा यह वा त्र्यहं वा अध्वानं परिवोढुम्, पतन्मे वर्षावासेषु भविष्यति ॥ सू० ३॥
भाष्यम्-‘से य स च भिक्षुः 'अहालहुस्सगं' यथालधुस्वकम् एकान्ततो लघुकम्, इत्यादि सर्व पूर्वसूत्रवदेव व्याख्येयम् , नवरम्-अयं विशेषः-'एस मे वासावासासु भविस्सई' एतत् शय्यासंस्तारकं मे-मम वर्षावासेषु-वर्षाकालिकमासेषु उपयोगि भविष्यतीति । सू० ३ ॥
एतदेव पुनः वृद्धावासमधिकृत्याऽऽह–'से य' इत्यादि ।
सूत्रम्-से य अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा जं चक्किया एगेण हत्येणं ओगिज्झ जाव एगाई वा दुयाह वा तियाहं वा चउयाह वा पंचाहं वा दूरमवि अद्धाणं परिवहित्तए, एस मे वुड्ढावासेसु भविस्सइ ।। सू० ४॥
छाया-स च यथालघुस्वकं शय्यासंस्तारकं गवेषयेत् यत् शक्नुयात् एकेन हस्तेन अवगृह्य यावदेकाहं वा द्वयहं वा व्यहं वा चतुरह वा पञ्चाहं वा दूरमपि अध्वानं परियोदुम् , एष मे वृद्धावासेषु भविष्यति ।। सू० ४॥