________________
॥ अथ अष्टमोद्देशकः ॥ व्याख्यातः सप्तमोद्देशकः, अथाष्टमः प्रारभ्यते, अस्य सप्तमोद्देशकेन सह कः सम्बन्धः ! इति सम्बन्धप्रतिपादनार्थमाह भाष्यकारः-'पुव्वं चरमे' इत्यादि । गाथा-पुव्वं चरमे रणो, ओग्गहऽणुण्णावणा तो पच्छा ।
संथारग कायव्वं, किज्जइ इह वण्णणं तस्स ॥१॥ छाया-पूर्व चरमे राज्ञः अवग्रहानुशापना ततः पश्चात् ।
संस्तारकं कर्त्तव्यम्, क्रियते इह वर्णनं तस्य ॥ १ ॥ व्याख्या-'पुन्छ' इति । पूर्व सप्तमोद्देशके चरमे-चरमसूत्रे सप्तमोद्देशकस्याऽन्तिमे सूत्र 'रण्णो' राज्ञः अवग्रहानुज्ञापना-वसतिवासार्थमाज्ञामार्गणा कथितेति शेषः 'तओ पच्छा' ततः पश्चात् तदनन्तरं 'संथारग' लुप्तविभक्तिकमिदंपदं तेन संस्तारकं पदैकदेशे पदसमुदायोपचारात् शय्यासंस्तारकं शय्या च संस्तारकश्चेति समाहारे तत् कर्त्तव्यं भवेदिति । इह-अस्मिन् अष्टमोद्देशकस्यादिसूत्रे तस्य शय्यासस्तारकस्य वर्णनं क्रियते, इत्यनेन सम्बन्धेनायातस्याऽस्याष्टमोदेशकस्येदमादिम सूत्रम्-'गाहा' इत्यादि ।।
सत्रम-गाहा उ पज्जोसविए ताए गाहाए ताए पएसाए ताए ओवासंतराए जमिणं जमिणं सेज्जासंथारगं लभेज्जा तमिणं तमिणं ममेव सिया, थेरा य से अणुजाणेज्जा तस्सेव सिया, थेरा य से नो अणुजाणेज्जा एवं से कप्पइ अहारायणियाए सेज्जासंथारगं पडिगाहेत्तए ॥ सू० १॥
छाया-गाथायाम् ऋतौ पर्युषितः तस्यां गाथायां तस्मिन् प्रदेशे, तस्मिन् अबकाशान्तरे यदिदं यदिदं शय्यासंस्तारकं लमेत तदिदं तदिदं ममैव स्यात्, स्थविराश्च तस्याऽनुजानीयुः तस्यैव स्यात् , स्थविराश्च तस्य नो अनुजानीयुः एवं तस्य कल्पते यथारात्निकतया शय्यासंस्तारकं परिग्रहीतुम् ॥ सू०१॥
भाष्यम्-'गाहा' गाथा, गाथाशब्दोऽत्र गृद्ववाचकः 'गाथापतिः-गृहपति'रिति सर्वत्र लम्यमानत्वात् , तेन गाथा-गृहं यदवग्रहेण प्राप्तम् , गृहस्य त्रिविघोऽवग्रहो भवति, तथाहि-ऋतुबद्धसाधर्मिकावग्रहः १, वर्षावाससाघर्मिकावग्रहः २, वृद्धावाससाधर्मिकावग्रहश्च ३ इति । तत्र 'उउ' ऋतौ ऋतुबद्धे काले, वर्षावासातिरिक्ते हेमन्तग्रीष्मरूपे, उपलक्षणाद् वर्षाकाले वृद्धावासे वा 'पज्जोवसिए' पर्युषितः-निवसित इति गाथायाम् ऋतौ पर्युषितः 'ताए गाहाए' तस्यां गाथायां
न्य. २१