________________
१८४
व्यवहारसूत्र
ww
कृताऽऽसीत् , राजपरावर्ते जाते द्वितीयमपि वारम्-तत्सिंहासनासीनराजसमीपे 'ओग्गहे अणुन्नवेयत्वे सिया' अवग्रहः--अनुज्ञापयितव्यः स्यात् , तादृशपरिस्थितिसद्भावे द्वितीयमपि वारमवनहस्याऽनुज्ञापना कर्त्तव्येति भावः । यत्र प्रदेशे पूर्वराजा कालं गतः तस्य पूर्वावस्थितस्य राज्ञो राज्यस्थितिरपि परावृत्ता दायादैविभागोऽपि कृतः, अन्येन वा केनचित् राज्ञा तदासनं समासादितं तादृशेषु राजपरावर्तेषु द्वितीयमपि वारं श्रमणैः स्वकीयभावस्य ज्ञान-दर्शन-चरित्ररूपस्याऽचौर्यव्रतस्य च रक्षार्थमवग्रहोऽनुज्ञापयितव्यः, अन्यथा अदत्तादानदोषः समापद्यतेति भावार्थः । एवं द्वितीयमपि वारम् अनुग्रहाऽननुज्ञापनायामात्मविराधना संयमविराधना च संभवति, यथा-स नूतनो राजा निर्विषयत्वं कुर्यात् , जीवनस्य भेदं वा कुर्यादित्याद्यात्मविराधनासंभवः, संयमविराधना चाज्ञाभङ्गादिरूपेति तस्मात् यत्र स्थिरो जातः स एव पुनरनुज्ञापयितव्य. ॥ सू० २७ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचिताया व्यवहारसूत्रस्य"
भाष्यरूपायां व्याख्यायां सप्तम उद्देशः समाप्तः ॥७॥