________________
राज्यपरावर्त्तऽवग्रहानुज्ञापनाविधिः १८३
वष्यम् उ० ७ सू० २७
-न
व्यवच्छिन्नं परम्परागतमेव वर्तते तादृशेषु, अत एव 'अपरपरिग्ाहिएसु' अपरपरिगृहीतेषु - रेण केनापि राज्ञा परिगृहीतेषु राजपरावर्त्तेषु 'सच्चेव ओग्गहस्स पुव्वणुन्नवणा' सा एव वग्रहस्याऽनुज्ञापना या पूर्वराज्ञः सकाशाद् गृहीता - अनुज्ञापना कृता सैवाऽवग्रहस्याऽनुज्ञाबना तिष्ठति । कियन्तं कालं सैव पूर्वाऽनुज्ञापना तिष्ठति ? तत्राह - 'अहालंदमवि ओग्गहे' कालवाचकस्तेन यावन्तं कालं स राजवंशोऽनुवर्त्तते यथालन्दमप्यवग्रहः, लन्दशब्दोऽत्र नावन्तं कालम्, अथवा यावत्कालं श्रमणस्तत्र तिष्ठेत् तावत्कालपर्यन्तमपि अवग्रहे पूर्वराजाऽवग्रहे सैव पूर्वाऽनुज्ञापना वर्त्तते, न पुनरस्मिन् राज्ञि सिंहासने उपविष्टे स भूयोऽपि अवग्रहं प्रति अनुज्ञापयितव्य. । साधुः साध्वी वा पूर्वराजा कालगतः, द्वितीयो राज्येऽभिषिक्तः अनेन प्रकारेण राज्ये परिवर्तनं जातम् परन्तु सम्प्रति-तस्मिन् देशे प्रथमस्य राज्ञ आज्ञा न गता, दायादेषु विभागो न जातः वंशपरम्परागतस्य राज्ञो विच्छेदो न जातः, वंशपरम्परागत एव तत्राभिषिक्तः, प्रत्यन्तरराजन्येन केनापि राज्यं न परिगृहीतम् तावत्कालपर्यन्तं पूर्वराज्ञ एव अवग्रहानुज्ञप स्थातव्यं श्रमणैरिति भावार्थः ॥ सू० २६ ॥
अथ पूर्वोक्तस्य विपर्यये सूत्रमाह - ' से रज्जपरियट्टेसु' इयादि ।
सूत्रम् - से रज्जपरियट्टे असंथडेसु वोगडेसु वोच्छिन्नेसु परपरिग्गहिए भिक्खुभावस्स अट्ठाए दोच्चंपि ओग्गहे अणुम्नवेयव्वे सिया || सू० २७ ॥ ॥ ववहारे सत्तमो उद्देसो ||७||
छाया - तस्य राजपरावर्त्तेषु असंस्तृतेषु व्याकृतेषु व्यवच्छिन्नेषु परपरिगृहीतेषु भिक्षुभावार्थाय द्वितीयमपि अवग्रहोऽनुज्ञापयितव्यः स्यात् ।। सू० २७ ॥ ॥ व्यवहारे सप्तम उद्देशः ||७||
भाष्यम् – ' से रज्जपरियट्ठेसु' 'से' तस्य श्रमणस्य राजपरावर्त्तेषु यत्र पूर्वराज्ञः परिवर्त्तनं जातम् पूर्वराज्ञि कालंगते सति तत्रापरो राजाऽभिषिक्तस्तद्देशेषु 'असंथडे' असंस्तृतेषु असमर्थेषु - अपरराजाऽऽक्रमणनिवारणार्थमशक्तेषु, कोऽप्यन्यो राजा तत्रागत्य तद्राज्यं विलु - म्पितुं शक्नोति तादृशेषु त्रुटितपूर्व राज्य संस्थितिष्वित्यर्थः 'वोगडेसु' व्याकृतेषु - विकृतिं प्राप्तेषु अन्यवंशीयैर्दायादैव विभज्य स्वायत्तीकृतेषु 'वोच्छिन्नेसु' व्यवच्छिन्नेषु - व्यपगतेषु पूर्ववंशीयराजश|सनेषु, अतएव 'परपरिग्गहिएसु' परपरिगृहीतेपु, परेण प्रत्यन्तरराज्ञा स्वाघीनीकृतेषु 'भिक्खुभावस्स अड्डाए' भिक्षुभावस्याऽर्थाय तत्र भिक्षोः - श्रमणस्य भावः-ज्ञानदर्शन—चारित्ररूपः, तस्याऽर्थाय प्रयोजनायय थाऽवस्थितभिक्षुभावसंपादनायेत्यर्थः ' मम भिक्षुभावो मा स्खण्डितो भूयात् परिपूर्णो भवतु तदर्थ' मिति, अथवा भिक्षुभावोऽचौर्याख्यं तृतीयं व्रतं तस्याऽर्थाय - अचौर्यत्रतपरिरक्षायै 'दोच्चपि द्वितीयमपि वारम्, एकवारं पूर्वराजसमीपे अवग्रहस्याऽनुज्ञापना