________________
भाष्यम् उ०७ सू० २२-२३
शय्यातराऽशय्यातरपरिज्ञानविधिः १७९ श्रावको भाटकप्रदानपूर्वकमन्यस्मै उपाश्रयं दद्यात् इत्यर्थः, 'से य वक्कइयं वएज्जा' स च सागारिकः, अवक्रयिक भाटकेनोपाश्रयप्रतिग्राहिणं वदेत् उपाश्रयग्रहणसमये कथयेत् । किं वदेत् ! तत्राह-'इमम्मि' इत्यादि, 'इमंमि य इमंमि य ओवासे समणा णिग्गंथा परिवसति' अस्मिंश्च अस्मिंश्च अवकाशे-उपाश्रयस्याऽमुकामुकप्रदेशे श्रमणा निम्रन्थाः परिवसन्ति-निवासं कुर्वन्ति, स सागारिकः यस्मै भाटकग्रहणाय उपाश्रयं ददाति, तं प्रति उपाश्रयप्रदानसमये एवं वदेत्-यदहं तुभ्यं भाटकप्रदानपूर्वकमुपाश्रयं ददामि किन्तु उपाश्रयस्याऽमुकप्रदेशे साघवो वसन्ति अतस्तं प्रदेशं विहायोपाश्रयं ददामीति । तस्मात् साधुस्थितिकमुपाश्रयस्य प्रदेशं विहायाऽवशिष्ट एवोपाश्रयस्य प्रदेशो भाटकप्रदानपूर्वकं त्वया ग्रहीतव्यः 'से सागारिए परिहारिए' एवमुक्के स सागारिकः परिहार्य.-परिहर्त्तव्यः । उपाश्रयं भाटकप्रदानपूर्वकं ददतः शय्यातरस्य गृहात् साधुभिर्भक्तपानादिकं न ग्रहीतव्यमित्यर्थः । 'से य नो वएज्जा वक्कइए वएज्जा' कदाचित् स चोपाश्रयस्वामी नो वदेत् अवक्रयिक एव-भाटकेनोपाश्रयग्रहीतैव वदेत् , यथा-अस्मिंश्च अस्मिंश्चावकाशे श्रमणा निवासं कुर्वन्तु, 'से सागारिए परिहारिए' स सागारिकः-सोऽवक्रयिकः सागारिकः शय्यातर इति परिहार्यः -परिहर्त्तव्यः, तद्गृहादपि भक्तपानादिकं साधुभिन ग्रहोतव्यमिति । 'दोवि ते वएज्जा दोवि सागारिया परिहारिया' द्वावपि तौ वदेयाताम् , द्वावपि सागारिको परिहार्यो । अथ द्वावपि भाटकदाता भाटकेन प्रतिग्रहीता च वदेयाताम् प्रथममुपाश्रयस्वामी वदेत्-एतावति उपाश्रयस्याऽवकाशे श्रमणा निम्रन्थाः स्थास्यन्तीति, पश्चादवक्रयिको ब्रूयात्-एतावति प्रदेशे श्रमणा निर्ग्रन्थास्तिष्ठन्तु न मे काऽपि हानिः, एवं यदि तौ द्वावपि वदेयाताम् तदा तौ द्वावपि सागारिको शय्यातरौ इति द्वावपि परिहाय्यौ', तयोर्द्वयोरपि गृहात्साधुभिर्भक्तपानादिकं न ग्रहीतव्यमिति ।
यदि-शय्यातरो भाटकेनोपाश्रयं कस्मैचिद्ददाति तथा प्रदान समये कथयेत-यामहं ददामि वसतिम् , तस्या वसतेरमुकाऽमुकप्रदेशे श्रमणा निर्ग्रन्थाः परिवसन्ति, अतस्ततत्प्रदेशं परित्यज्योपाश्रयस्य प्रदेशान्तरमेव त्वया ग्रहीतव्यम् , इत्थं कथयतः शय्यातरस्य भक्तपानादिकं श्रमणैन ग्रहीतव्यम् । यदि शय्यातरः सम्पूर्णमेवोपाश्रयं भाटकेन दद्यात् अतोऽमुकप्रदेशे श्रमणा स्तिष्ठन्तीति वक्तुं न पारयेत्-कथयितुं न शक्नुयात् , किन्तु-यो भाटकेन गृह्णाति स एव वदेत्- यदमुकाऽमुकप्रदेशे श्रमणा निग्रन्थास्तिष्ठन्तु, तदा स भाटकेन उपाश्रयप्रतिग्रहीता शय्यातर इति तस्याऽपि भक्तपानादिकं ग्रहीतुं साधूनां न कल्पते । यदि उपाश्रयस्याधिपतिः भाटकेन ग्रहीता च उभावपि वदेयाताम् तत्र प्रथमो वदेत्-अमुकप्रदेशे श्रमणा निग्रन्थाः स्थास्यन्तीति, उपाश्रयग्रहीताऽपि वदेत्-यदुपाश्रयस्याऽमुम्मिन् अवकाशे