________________
व्यवहारसूत्र श्रमणा निर्ग्रन्थास्तिष्ठन्तु तदोभावपि शय्यातरौ इति द्वयोरपि तयोर्भक्तपानादिकं साधुभिर्न ग्रहीतव्यमिति भावः ॥ सू० २२ ॥
सूत्रम्-सागारिए उवस्सयं विक्किणिज्जा से य कइयं वएज्जा इममि य इमंमि य ओवासे समणा णिग्गंथा परिवसंति, से य सागारिए परिहारिए, से य नो वएज्जा कइए वएज्जा से सागारिए परिहारिए, दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥ सू० २३॥
छाया- सागारिक उपाश्रय विक्रीणीत, स च क्रयिकं वदेत्-अस्मिश्च अस्मिंश्च अवकाशे श्रमणा निर्ग्रन्थाः परिवसन्ति, स च सागारिकः परिहार्यः, स च नो वदेत् , अवक्रयिको वदेत् स सागारिकः परिहार्यः, द्वावपि तो वदेयाताम् द्वावपि सागारिको परिहाय्यौँ। सू० २३।।
भाष्यम्-'सागारिए' सागारिकः शय्यातर. 'उवस्सयं' उपाश्रय--वसतिम् 'विक्किणिज्जा' विक्रीणीत-उपाश्रयस्य विक्रयं कुर्यात् मूल्येन दद्यादित्यर्थः तस्योपाश्रयस्य यावन्मूल्यं तद् गृहीत्वा तमुपाश्रायं मूल्यदात्रे दद्यात् , 'से य कइयं वएजा' स च क्रयिकं वदेत् स चोपाश्रयस्य विक्रेता सागारिकः यो मूल्यं दत्वा उपाश्रयं गृह्णाति तं प्रति वदेत्-'इममि य इमंमि य ओवासे समणा णिग्गंथा परिवसंति' त्वया मूल्येन गृहीतस्यास्योपाश्रयस्य अस्मिंश्चास्मिंश्च अवकाशे श्रमणा निर्ग्रन्थाः परिवसन्ति-अस्योपाश्रयस्यामुकप्रदेशे साधवत्तिष्ठन्ति, अतस्तादृशं देशं परित्यज्योपाश्रयं मवते ददामि, 'से य सागारिए परिहारिए' स च सागारिकः शय्यातरः इति शय्यातरत्वात् स परिहार्यः-परिहर्त्तव्यः भक्तपानादिकं गृहद्भिः तस्य प्रतिषेधः कार्यः । 'से य नो वएज्जा' स च-पूर्वस्वामी यदि किञ्चिदपि न वदेत् किन्तु 'कइए वएज्जा' क्रयिक:-यो मूल्यं दत्त्वा उपाश्रयं गृह्णाति स एव वदेत्-यथा-अस्योपाश्रयस्याऽमुकप्रदेशे मक्रीतेऽपि श्रमणा निर्ग्रन्थाः यथासुखं तिष्ठन्तु, तदा-'से सागारिए परिहारिए' स च क्रेता सागारिकः शय्यातर इति कृत्वा परिहार्यः-परिहर्त्तव्यः, तद्गृहं भक्तपानाद्यथै परिवर्जनीयमिति । 'दोवि ते वएज्जा दोवि सागारिया परिहारिया' अथवा द्वावपि तौ पूर्वप्रकारेण वदेयाताम् तदा द्वावपि सागारिको शय्यातरौ परिहार्यो-परिहर्त्तव्यौ । अथ यदि द्वावपि वदेयाताम्-यथा पूर्वस्वामिना कथितम्'एतावत्येकदेशे श्रमणा निर्ग्रन्थास्तिष्ठन्तु' परन्तु तावति प्रदेशे श्रमणानां समावेशमदृष्ट्वा मूल्येन ग्रहीता वदेत्-एतावति मदीयेऽपि प्रदेशे तिष्ठन्तु श्रमणा निर्ग्रन्थाः, तदा द्वावपि सागारिकोशय्यातरौ इति तौ द्वावपि परिहार्यो-परिहर्त्तव्यो, तद्गृहेभ्यो भक्तपानादिकं कदाचिदपि न ग्राह्यम् ॥ सू० २३ ॥