SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १७८ 'थंडिले' स्थण्डिले - एकान्तभूमिरूपे, कीदृशे ? इत्याह- 'बहुफानुए' बहुप्रासुके-द्वीन्द्रियादिजीवविवर्जिते 'पडिले हित्ता' तत्स्थण्डिलं प्रतिलेख्य - प्रत्युपेक्ष्य द्वीन्द्रियादिप्राणिवर्जितं सम्यगवलोक्य ततः 'पमज्जित्ता' प्रमार्ण्य - प्रमार्जनं कृत्वा तत्स्थानात् द्वीन्द्रियादिकं पृथक् कृत्वा, 'परिट्ठवित्तए' परिस्थापयितुम् साधूनां साधर्मिकस्य मृतस्य संयतस्य शरीरं गृहस्था मा स्पृशन्तु इति बुद्धया द्वीन्द्रियादिजीवविवर्जितप्रदेशे प्रतिलेखनप्रमार्जनं कृत्वा तत् शरीरं परिष्ठापयितुं कल्पते इत्यर्थः । परिष्ठापनानन्तरम् 'अस्थि य इत्थ केइ साहम्मियसंतिए उवगरणजाए परिहरणारिहे' अस्ति चात्र किञ्चित् सावर्मिक सत्कमुपकरणजातं परिहरणाहम्, अस्ति - विद्यते चात्र मृतसाधुशरीरसमीपे किञ्चित् साधर्मिकसंयत सबन्धि - उपकरणजातं भण्डोपकरणादिकं परिहरणार्है-परिभोगार्हम् उपभोगयोग्यं भवेत्तदा ' कप्पर से सागारकडं गहाय' कल्पते 'से' तस्य सागारकृतं गृहीत्वा तत्र - सागारकृतं नाम नात्मना स्वीकरोति किन्तु आचार्य सम्बन्धि एतत् आचार्य एव तस्य ज्ञायकः, एवमवग्रहपूर्वकं गृहीत्वाऽऽचार्याणां समर्पयेत्, आचार्यों यदि यस्मै कस्मैचिदद्यात् तदा सः 'मत्थएण वन्दामि तहचि' इति बुवाणः आचार्यवचः स्वीकुर्यात् गृहीते सति 'दोच्चंपि ओग्गहं अणुण्णवेत्ता' द्वितीयमपि वारम् अवग्रहम्-आज्ञां भण्डोपकरणाद्युपभोगार्थमनुज्ञाप्य - गृहीत्वा 'परिहारं परिहरिचए' परिहारं परिहर्त्तुम्-आचार्यानुज्ञापनानन्तरमुपभोगयोग्यं वस्तु आचार्य प्रदत्तमुपभोक्तुं कल्पते परिहर्त्तुमिति त्यागानुज्ञायां त्यक्तुं कल्पते, अन्यस्मै दातुं परिष्ठापयितुं वा कल्पते ।। सू० २१॥ अवक्रयविक्रयविषयमधिकृत्य शय्यातरविधि प्रदर्शयितुमाह व्यवहारस् सम्प्रति- उपाश्रयस्य 'सागारिए' इत्यादि । सूत्रम् - सागारिए उस्सयं वक्कएणं पउंजेज्जा, से य वक्कइयं वएज्जा इमम्मिय इमम्मिय ओवासे समणा णिग्गंथा परिवसंति से सागारिए परिहारिए, से य नो वएज्जा चकइए वएज्जा से सागारिए परिहारिए, दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥ सू० २२ ॥ छाया-- सागारिकः उपाश्रयमवक्रयेण प्रयुञ्जीतः स चाऽवक्रयिकं वदेत्-अस्मिंश्च अस्मिश्च अवकाशे श्रमणा निर्ग्रन्थाः परिवसन्ति, स सागारिकः परिहार्य्यः, स च नो वदेत् अवक्रयिको वदेत् स सागारिकः परिहार्य्यः, द्वावपि तौ वदेयाताम् द्वावपि सागारिकौ परिहाय्य ॥ सू० २२॥ भाष्यम् – 'सागारिए' सागारिकः उपाश्रयस्वामी 'उवस्तयं' उपाश्रयम् - वसतिम् 'वक्कणं' अवक्रयेण कियत्कालमवक्रयेण - भाटकप्रदानेन 'पउंजेज्जा' प्रयुञ्जीत - व्यापारयेत्,
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy