SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमोद्देशकः ॥ गत• पष्ठ उद्देशः, साम्प्रतं सप्तमो व्याख्यायते, पूर्वोद्देशेनास्य कः सम्बन्धस्तत्राह गाथाद्वयं भाष्यकारः-'सामन्नओ' इत्यादि । गाथा-सामन्नो दुयाणं, णिग्गंथी आगया खुयायारा । . आलोयणं कराविय, कप्पइ तीए य संभोगो॥१॥ इइ वुत्तं पुव्वं इह, निग्गंथीए न कप्पए एवं । निग्गंथमणापुच्छिय, संबंधो एत्थ विन्नेओ ॥२॥ छाया-सामान्यतो द्वयानां, निर्ग्रन्थी आगता क्षताचारा। आलोचनां कारयित्वा, कल्पते तया च संभोगः ॥ १॥ इत्युक्त पूर्वमिह निर्ग्रन्थ्या न कल्पते एवम् । निर्ग्रन्थमनापृच्छय, सम्वन्धोऽत्र विज्ञेयः ॥ २ ॥ व्याख्या-सामान्यतः समुच्चयेन द्वयानां निर्ग्रन्थानां निर्ग्रन्थीनां च या काचिद् निर्ग्रन्थी आगता-अन्यगणात् समागता, कीदृशीत्याह-'खुयायारा' क्षताचारा, उपलक्षणात् शबलाचारादिविशेषणविशिष्टा भवेत्तदा 'आलोयणं कराविय' आलोचनाम् उपलक्षणात् प्रतिक्रमणादिकं कारयित्वा कल्पते तया सह संभोगो नान्यथेति ॥ १॥ 'डेड वृत्तं' इत्यादि, इति-एवं प्रकारेण पूर्व षष्ठोद्देशकस्य चरमसूत्रे उक्तम् , इहअस्मिन् सप्तमोद्देशकस्यादिसूत्रे निर्घन्ध्याः केवलं निर्ग्रन्ध्याः निर्ग्रन्थम् , अत्र जातावेकवचनं तेन निर्ग्रन्थान् साम्भोगिकान् आचार्यादिकान् अनापृच्छ्य अपृष्ट्वा एवम्-पूर्वोक्तप्रकारेण अनालोचितपापस्थानया निम्रन्थ्या सह संभोगः कर्तुं न कल्पते, स यथा आदिशेत् तथा कुर्यादिति भावः, एषोऽत्र सम्बन्धो विज्ञेय इति ॥ २ ॥ भनेन सम्बन्धेनायातस्यास्य सप्तमोद्देशकस्य इदमादिम सूत्रम्-"जे णिग्गंथा य इत्यादि । सूत्रम्-जे णिग्गंथा य णिग्गंधीओ य संभोइया सिया नो कप्पइ णिग्गंथीणं णिग्गंथे अणापुच्छित्ता णिग्गंथिं अन्नगणाओ आगयं खुयायारं सवलायारं भिन्नायारं संकिलिहायारचरितं तस्स ठाणस्त अणालोयावेत्ता जाव अहारिहं पायच्छित्तं तवोकम्म अपडिवज्जावेत्ता पुच्छित्तए वा वाएत्तए वा उवद्यावेत्तए वा संभुंजित्तए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० १॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy