SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे ___ छाया-ये निर्ग्रन्थाश्च निर्ग्रन्थ्यश्च साम्भोगिकाः स्युः नो कल्पते निर्ग्रन्थीनां निम्रन्थाननापृच्छ्य निर्ग्रन्थीमन्यगणादागतां क्षताचारां शवलाचारां भिन्नाचारां संक्लिष्टाचारचरित्रां तस्य स्थानस्य अनालोच्य यावद् यथाहं प्रायश्चित्तं तपःकर्म अप्रतिपाद्य प्रष्टुं वा वाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिश वा अनुदिशं वा उद्देष्टुं वा धारियतु वा ॥ स० १ ॥ भाष्यम्- 'जे णिग्गंधा य णिग्गंधीओ य' ये निर्ग्रन्थाः श्रमणाः तथा निर्ग्रन्थ्यः श्रमण्यश्च, 'संभोइया सिया' साम्भोगिकाः स्यु. द्वादशप्रकारकसम्भोगयुक्ता एकत्र प्रामादिषु भवेयु:तिष्ठेयुः, उपलक्षणात् कल्पानुसारेण सार्द्धक्रोशद्यपरिमिते दूरेऽपि वा तिष्ठेयुः, तेषां मध्ये 'नो कप्पइ णिग्गंधीणं णिग्गंथे अणापुच्छित्ता' नो न कथमपि कल्पते निर्ग्रन्थीनां निर्ग्रन्थान् साम्भोगिकान् आचार्यादिकान् अनापृछ्य तेषामाज्ञामन्तरेणेत्यर्थः । किं न कल्पते ? तत्राह-णिग्गंर्थि' इत्यादि, 'णिग्गथिं अन्नेगणामो आगयं' निग्रन्थों श्रमणीमन्यगणाद् -अन्यगच्छाद् आगतांसमागताम्, कथम्भूतामन्यगणादागतां श्रमणीम् ? तत्राह-'खुयायारं' इत्यादि, 'खुयायारं' क्षताचाराम् शवलाचाराम् भिन्नांचाराम् संक्लिष्टाचारचरित्राम् , एषां पदानां व्याख्या षष्ठोद्देशके त्रयोविशतितमसूत्रे गता, एतादृशक्षताचारादिविशेषणयुक्तामन्यगणादागतां श्रमणीम् , 'तस्स ठाणस्स अणालोयावेत्ता' तस्य पापस्थानस्यानालोच्य येनापंराधेन सा मलिना जाता तादृशापराधस्थानस्य आलोचनामकारयित्वा तंत्पापस्थानमप्रकटयित्वेत्यर्थः नाव अहारिहं पायच्छित्तं तवोंकम्मं अपडिवज्जावेत्ता' यावद् यथार्ह प्रायश्चित्तं तप.कर्म अप्रतिपाद्य-अदत्त्वा, अत्र यावत्पदेन 'अपंडिक्कमावेत्ता अनिंदावेचा अगरिहावेत्ता अविउद्यावेत्ता अविसोहावेत्ता अकरणाए अणभुट्टावेत्ता' इत्येतेषां विशेषणानां साहो भवति। एषां पदानामपि व्याख्या षष्ठोदेशकस्य त्रयोविंशतितमे सूत्रे गता, येन पापस्थानेन सा दूषिता तादृशपापस्थानस्य प्रतिक्रमणादिकमकारयित्वेत्यर्थः, येथाह-यथायोग्यं शास्त्रोक्तं प्रायश्चित्तं तपःकर्म अप्रतिपाद्य तस्य पापस्थानस्य यथायोग्यं प्रायश्चित्तरूपेण- तपःकर्माsदत्त्वेत्यर्थः 'पुच्छित्तए वी वाएत्तए वा' प्रष्टुं वा वाचयितुं वा, यदि पूर्वोक्तक्षताचारादियुक्ता अन्यगणात् कॉचित् श्रमणी समागच्छेत् तां गणनायकस्याऽऽज्ञामन्तरेण सुखशातादिकं प्रष्टुं न फल्पते, तथा तस्यै वाचनामपि दातुं न कल्पते श्रमणीनामित्यर्थः, तथा-'उवहावेत्तए वा' उपस्थापयितुं वा महावतेषु आरोपयितुं न कल्पते, तस्याश्छेदोपस्थापनीयचारित्रमपि न देयम् , 'संभुंजित्तए वा संवसित्तए वा' संभोक्तुं वा संवस्तुं वा एतादृशपूर्वोक्तदूषणविशिष्टश्रमण्या सह एकमण्डल्यां नाऽऽहारादिव्यवहारः करणीय., तथा तया सह एकस्मिन्नुपाश्रयादौ निवासोऽपि न करणीय इति, 'तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा' तस्याः इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा, एतादृशदोषोपेतायै श्रमण्यै इत्वरिकां दिशम् अल्पकालिकी प्रवर्त्तिन्यादिपदवीम् , अनुदिशम् यावज्जीवनकालिकों वा पदवीम्, उद्देष्टुम्-अनुज्ञातुम् धारयितुं पदवी दातुं वा न कल्पते ।। सू० १ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy