________________
भाष्यम् उ० ६ स्० १२-१६
आचार्योपाध्यायस्यातिशयनिरूपम् १५१
द्वितीयवारं तृतीयवारं वा उपाश्रयावहिरुध्चाराधर्थ गन्तुं न शक्नुयात् , यतो हि-मुहुर्मुहुर्वहिर्गमने श्रावकैरिं वारं विनयादिकं कर्तुं न पायेंत, इत्यवज्ञया शासनस्य लघुता स्यात् , अत एव द्वितीयादिवारं ययुच्चारादिशङ्का भवेत् तदा तत्रैव तत् तेन कर्त्तव्यम् , तस्य बहिर्गमने तदनुपस्थितौ यदि कोऽपि अन्यतैर्थिको वादी सामायाति कस्तं निवारयेत् , इत्यादिकारणसंभवात् , तस्य विशोधकोऽपि शिष्यो विशुद्धिं कुर्वन् तीर्थकराज्ञां नातिकामति प्रत्युत महानिर्जरां करोतीति भावः । इति द्वितीयोऽतिशयः २ ॥ सू० ११ ॥
अथ तृतीयमतिशयमाह-आयरियउवज्झाए' इत्यादि ।
सूत्रम्-आयरियउवज्झाए पभू वेयावडियं इच्छा करेजा इच्छा नो करेज्जा ॥ सू० १२॥
छाया--आचार्योपाध्यायः प्रभुः वैयावृत्त्यम् इच्छा कुर्यात् इच्छा नो कुर्यात् ॥ सू० १२ ॥
भाष्यम्---'आरियउवज्झाए पभू' आचार्योपाध्यायः प्रभुः समर्थः शरीरसामर्थ्यवानपि 'वेयावडियं इच्छा करेज्जा' वैयावृत्त्यम् अन्यसाधुम्यो भक्तपानादीनामानयनादिकम् इच्छा कुर्यात् यदीच्छा भवेत्तदा कुर्यात् कत्तुं शक्नोति, 'इच्छा नो करेज्जा' इच्छा नो कुर्यात् , यदीच्छा न भवेत्तदा न कुर्यात् , आचार्योपाध्यायस्य सामर्थेऽपि वैयावृत्यकरणप्रतिबन्धाभावात् , यदीच्छेत् तस्येच्छा भवेत् तदा वैयावृत्त्यं कुर्यात् यदि नेच्छा भवेत् , तदा न कुर्या तस्यातिशयवत्त्वात् । एष तृतीयोऽतिशयः ३ ॥ सू० १२॥
अथ चतुर्थमतिशयमाह-आयरियउवज्झाए' इत्यादि ।
सूत्रम्--'आयरियउवज्झाए अंतो उवस्सयस्स एगरायं वा दुराय वा वसमाणे नो अइक्कमइ ।। सू० १३ ॥ - छाया--आचार्योपाध्यायः अन्तः उपाश्रययस्य एकरात्रं वा द्विरात्रं वा वसन् नो अतिक्रामति ॥ सू० १३ ॥
भाष्यम्-'आयरियउवज्झाए अंतो उवस्सयस्स' आचार्योपाध्यायः अन्तः-मध्ये उपाश्रयस्य वसतेः 'एगरायं वा दुरायं वा वसमाणे' एकरात्रं वा द्विरानं वा एकाकी वसन् 'नो अइक्कमई' नातिकामति कथमपि तीर्थङ्कराज्ञां नोल्लधयति, तस्योपाश्रयमध्ये एकाकिवासोऽपि कल्पते अतिशयवत्वात् । एषश्चतुर्थोऽतिशयः १ ॥ सू० १३ ॥