________________
व्यवहारसूत्रे छाया-आचार्योपाध्यस्थ गणे पञ्च अतिशेषाः प्रज्ञप्ता तद्यथा-आचार्योपाध्यायः अन्त उपाश्रयस्य पादौ निगृह्य निगृह्य प्रस्फोटयन् वा प्रमार्जयन् वा नो अतिक्रामति सू०१०॥
भाष्यम्-'आयरियउवज्झायस्स' आचार्योपाध्यायस्य आचार्यश्चोपाध्यायश्चेत्याचार्योपाध्याय. आचार्यरूप उपाध्यायः यद्वा आचार्येण सहित उपाध्यायः आचार्योपाध्यायः, तस्याचार्योपाध्यायस्य 'गणसि' गणे-गच्छमध्ये इत्यर्थः 'पंच अइसेसा पन्नत्ता' पञ्च-पञ्चसंख्यका अतिशेषाः- अतिशयाः सामान्यसाधोरनाचरणीयत्वात् प्रज्ञप्ताः-कथिताः । तानेव पञ्चातिशयान् दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'आयरियउवज्झाए' आचार्योपाध्यायः, आचार्यश्चोपाध्यायश्चेत्यर्थ., 'अंतो उवस्सयस्स' अन्तः उपाश्रयस्य वसतेमध्ये इत्यर्थः, 'पाए' पादौ स्वकीयचरणौ 'निगिज्झिय निगिझिय' निगृह्य निगृह्य-भूमौ यतनया-आस्फाल्यास्फाल्य 'पप्फोडेमाणे वा' प्रस्फोटयन्-तद्गतधूल्यादिमपनयन् ‘पमज्जमाणे चा' प्रमार्जयन् वा वस्त्रादिना प्रोञ्छयन् वा 'नो अइक्कमइ' नो अतिक्रामति-तीर्थकरा नोलद्धयति, बाह्यत आगतस्य साघोः पादप्रमार्जनमुपाश्रयाद्वहिरेव करणीयं भवेत् किन्तु आचायोपाध्यायस्य तदतिशयत्त्वेन प्रतिपादनान्न दोषः, यत आचार्योपाध्याया न किमपि कारणं विना एवं कुर्वन्ति, - बहिर्गृहस्थानामुपस्थितौ एवं करणे शासनोड्डाहो भवति, यदेते असम्या जैनसाधवः ये उपस्थितजने धूलिमुडापयन्तीत्यादि कारणवशात्ते एवं कुर्वन्ति ततो न तेषामाज्ञाभङ्गादि दोषः समापद्येत तेषामतिशयत्वेन भगवता प्रतिपादितत्वात् । एषः एकोऽतिशयः ॥सू० १०॥
अथ द्वितीयमाह-'आयरिय' इत्यादि ।
सूत्रम्-आयरियउवज्झाए अन्तो उवस्सयस्स उच्चारपासवणं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ ॥ सू० ११ ॥
छाया--आचार्योपाध्यायः अन्त उपाश्रयस्य उच्चारप्रस्रवणं विगिञ्चयन् वा विशोधयन् वा नो अतिक्रामति ॥ सू० ११ ॥ .
__ भाष्यम्-'आयरियउवज्झाए' आचार्योपाध्यायः 'अंतो उवस्सयस्स' अन्तःमध्ये उपाश्रयस्य 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'विर्गिचमाणे वा' विगिञ्चयन्-व्युत्सजन् वा, 'विसोहेमाणे वा' भूमिं विशोधयन् वा 'नो अइक्कमइ' नो अतिक्रामति, उपाश्रयमध्ये उच्चारप्रस्रवण कुर्वन् आचार्यः तस्य यत् पुरीषादिकं विशोधयन् उच्चारादिपरिष्ठापकोऽपि नातिकामति । आचार्योपाध्यायस्य यदि प्रस्रवणादिवेगो भवेत् , तदा स उपाश्रयमध्य एव तत् कुर्यात् , यदन्यः कश्चिद् उच्चारादि परिष्ठापको भवेत्तर्हि-आचार्यः,