SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ भीष्यम् उ०६ सू०६-११ तन्दुलौदनभिलिङ्गसूपयोहणविधिः १४९ छाया-तत्र तस्य पूर्वागमनेन द्वावपि पूर्वायुक्तौ कल्पते तस्य द्वावपि प्रतिग्रहीतुम् ॥ सू०६॥ भाष्यम्-अस्मिन् सूत्रे तन्दुलौदनो भिलिङ्गसूपश्चेति द्वावपि प्रतिग्रहीतुं कल्पते तयोईयोरपि पूर्वायुक्तत्वात् ।। सू० ६॥ सूत्रम्--तत्थ से पून्वागमणेणं दोवि पच्छाउत्ते नो से कप्पइ दोवि पडि-- ग्गाहित्तए ॥ सू०७॥ छाया-तत्र तस्य पूर्वागमनेन द्वावपि पश्चादायुक्तौ नो तस्य कल्पते द्वावपि प्रतिग्रहीतुम् ॥ सू० ७॥ भाष्यम्-अस्मिन् सूत्रे मिलिङ्गसूपस्तन्दुलौदनश्च द्वावपि नो कल्पते द्वयोरपि पश्चादायुक्तत्वात् ।। सू० ७ ॥ अत्र कल्पने कारणं प्रदर्शयति-'जे से तत्थ' इत्यादि । सूत्रम्-जे से तत्थ पुयागमणेण पुन्हाउत्ते, से कप्पइ पडिग्गाहित्तए । सू० ८ ॥ छाया-यः सः तत्र पूर्वागमनेन पूर्वायुक्तः स कल्पते प्रतिग्रहीतुम् ॥ सू० ८ ॥ भाष्यम्-यः सः कोऽपि पदार्थो गृहस्थगृहे साधुप्रायोग्यः अशनादिः स सर्वोऽपि साधोरागमनात्पूर्वमायुक्तः-सम्पन्नः स कल्पते प्रतिग्रहीतुमिति तात्पर्यार्थः ॥ सू० ८ ॥ अथाऽकल्पने कारणमाह--'जे से' इत्यादि । सूत्रम्--जे से तत्थ पुवागमणेणं पच्छाउत्ते, नो से कप्पइ पडिग्गाहित्तए ।०९॥ छाया- यः स तत्र पूर्वागमनेन पश्चादायुक्तो नो तस्य कल्पते प्रतिग्रहीतुम् ।।सू०९॥ भाष्यम्-यः स कोऽपि पदार्थः साधोर्ग्रहणयोग्योऽशनादिर्गृहस्थगृहे साधोरागमनात्पश्चादायुक्तः-सम्पन्नः स कोऽपि पदार्थः साधोर्न कल्पते इति भावः ॥ सू० ९॥ पूर्व बहुश्रुतबह्वागमस्य ज्ञातविधिगमने विधिः प्रदर्शितः । ज्ञातविधिं कृत्वा ततः प्रत्यावर्त्य उपाश्रये आगच्छति तत्र पादप्रस्फोटनादि चावश्यं करोतीति तद्विषये आचार्योपाध्यायस्य पश्चातिशेषान् दर्शयति--'आयरियउवज्झायस्स' इत्यादि । सूत्रम्-आयरियउवज्झायस्य गणंसि पंच अइसेसा पन्नत्ता, तं जहा आयरियउवज्झाए अंतो उवस्सयस्स पाए निगिझिय निगिज्झिय पप्फोडेमाणे वा पमज्जमाणे वा नो अइक्कमइ ॥ सू० १० ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy