________________
१४८
व्यवहारसूत्रे mmmmmmmmmmmmmmmmmmmmmmmmmmmm भाष्यम्-'कप्पड़ से जे तत्थ बहुस्सुए वहागमे' कल्पते 'से' तस्य श्रम णस्य यस्तत्र-गच्छे वहुश्रुतः सूत्रापेक्षया, वह्वागमः अर्थापेक्षया 'तेण सद्धिं नायविहि एत्तए' तेन वहुश्रुतेन वह्वागमेन सार्ध ज्ञातविधिमेतुम्-स्वजनगृहं गन्तुं कल्पते इति संबन्धः, नैकाकिनां श्रमणेन स्वजनगृहे गन्तुं शक्यते किन्तु -तस्मिन् गच्छे यो बहुश्रुतो बह्वागमः तेन साकं मिलित्वा गन्तुं शक्यते इति भावः ।। सू० ३ ।। ।
स्वजनगृहे गते सति तत्राहारग्रहणविधिमाह-'तत्थ से' इत्यादि ।
सूत्रम्-- तत्थ से पुव्यागमणेणं पुब्बाउत्ते चाउलोदणे, पच्छाउत्ते भिलिंगसूवे कप्पइ से चाउलोदणे पडिग्गाहित्तए. नो से कप्पइ भिलिंगसूवे पडिग्गाहित्तए । सू० ४ ॥
छाया-तत्र तस्य पूर्वागमनात् पूर्वायुक्तः तन्दुलौदन पश्चादायुक्तः भिलिङ्गसूपः कल्पते तस्य तन्दुलौदनः प्रतिग्रहीतुम् , नो तस्य कल्पते भिलिङ्गसूपः प्रतिग्रहीतुम् ॥ सू०४॥
भाष्यम् - 'तत्थ से' इति तत्र-गृहस्थगृहे तस्य-भिक्षार्थमागतस्य साधोः 'पुव्वागमणेणं' सूत्रे पञ्चम्यर्थे तृतीया आर्षत्वात् तेन आगमनात्पूर्व साधोरागमनात्प्रागेव 'पुन्बाउत्ते' पूर्वायुक्त. पूर्व रन्धनकाले एव आयुक्तः रध्यमानः गृहस्थैः स्वनिमित्तं पक्तुमारब्धः 'चाउलोदणे' तन्दुलौदनः वर्तेत 'पच्छाउत्ते भिलिंगसवे' पश्चादायुक्तः साधोरागमनानन्तरं रध्यमानः 'भिलिंगसूवे' इति मसूर दालिर्भवेत् उपलक्षणमेतत् सर्वदालीनाम् , तत्र तयोर्मध्ये 'कप्पइ से' कल्पते तस्य साधोः 'चाउलोदणे' तन्दुलौदनः 'पडिग्गाहित्तए' प्रतिग्रहीतुम् तन्दुलौदनस्य पूर्वायुक्तत्वात् , किन्तु- 'नो. से कप्पइ'. नो-नैव-तस्य- साधोः कल्पते 'भिलिंगस्वे' मसूरसूपः 'पडिग्गाहित्तए' प्रतिग्रहीतुं तस्य पश्चादायुक्तत्त्वात् ॥ सू० ४ ॥
पुनरेवाह--'तत्य पुन्नागमणेणं' इत्यादि ।
सूत्रम्-तत्य पुवागमणेणं पुव्वाउत्ते भिलिंगसूवे, पच्छाउत्ते चाउलोदणे, कप्पइ से भिलिंगसूवे पडिग्गाहित्तए, नो से कप्पइ चाउलोदणे पडिग्गाहित्तए ॥ सू० ५॥
छाया-तत्र पूर्वागमनेन पूर्वायुक्तो भिलिङ्गसूपः पश्चादायुक्तस्तन्दुलौदनः कल्पते तस्य भिलिङ्गसूपः प्रतिग्रहीतुम्, नो तस्य कल्पते तन्दुलौदनः प्रतिग्रहीतुम् ॥ सू० ५॥
भाष्यम्-अस्मिन् सूत्रे भिलिङ्गसूप. साधोः प्रतिग्रहीतु कल्पते पूर्वायुक्तत्वात् किन्तु तन्दुलौदनो न कल्पते तस्य पश्चादायुक्तत्वादिति सूत्रभावः ॥ सू० ५॥
सूत्रम्-तत्थ से पूवागमणेणं दोवि पुवाउत्ते कप्पइ से दोवि पडिग्गाहित्तए ॥ सू०६॥