________________
भाष्यम् उ ५ सू० १७-१८ स्थविराणामाचारप्रकल्पे नष्टेऽपि पदानविधिः १३९ तानांच आचारप्रकल्पनामकाऽध्ययनस्य विस्मृतौ संस्थापने असंस्थापने वापि आचार्यादिपदं दातव्यं ' भवेदिति प्रदर्शयन्नाह-'थेराण' इत्यादि ।
सूत्रम्-थेराणं थेरभूमिपत्ताणं आयारपकप्पे नाम अज्झयणे परिभहे सिया कप्पइ तेर्सि संठवेत्ताण वा असंठवेत्ताण वा आयरियत्तं वा जाव गणावच्छेययत्तं वा उदिसित्तए वा धारित्तए वा ॥ सू० १७ ॥
छाया-स्थविराणां स्थविरभूमिप्राप्तानामाचारप्रकल्पो नामाध्ययन परिभ्रष्ट स्थाव कल्पते तेषां संस्थापयतामसंस्थापयतां वा आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १७ ॥
भाष्यम्-'थेराणं' स्थविराणाम्-ये ज्ञान-दर्शन-चारित्रे सीदतामिहलोकपरलोकाऽपायं प्रदर्य तान् संयमे संस्थापयन्ति तेषाम्-श्रुतस्थविराणां षष्टिवर्षाणां वा 'येरभूमिपत्ताणं' स्थविरभूमिप्राप्तानाम्-आचार्यपदप्राप्तानाम् 'आयारपकप्पे नाम अज्झयणे परिभट्टे सिया'-आचारप्रकल्पो नामाध्ययनम्-आचाराङ्गनिशीथसूत्रादिकं परिभ्रष्ट-नष्ट-विस्मृतं स्यात्भवेत् 'कप्पइ तेर्सि' कल्पते तेषां स्थविराणां स्थविरभूमिप्राप्तानाम् 'संठवेत्ताण वा' संस्थापयतां पुनरधीत्य सस्मरताम् 'असंठवेत्ताण वा' असंस्थापयतां पुनरसंस्मरतां वा 'आयरियत्तं जाव गणावच्छेययत्तं वा'-आचार्यत्वं वा उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा 'उदिसित्तए वा' उद्देष्टुमनुज्ञातुं वा, जीर्णत्वमहत्त्वकारणेन तेषां सूत्रधारणायाः सामर्थ्याभावात् 'धारित्तए वा' स्वयं धारयितुं वा । स्थविरविषये अत्र चतुर्भङ्गी यथा
जीर्णो नो महान् , यस्तरुण एवं सन् जरया परिणतः, इत्येकः १। नो जीर्णः किन्तु महान्, यो वृद्धोऽपि सन् दृढशरीर इति द्वितीयः २ । जीर्णोऽपि च महानपि चेति तृतीयः ३ । नो जीर्णो नो महान् इति चतुर्थः ४।
मयं चतुर्थो भङ्गः शून्यः । शेषाणां तुं त्रयाणामेकतरो न शक्नोति संस्थापयितमिति तस्याचारप्रकल्पो नामाध्ययनं परिभ्रष्टं भवेदिति कल्पेत तादृशस्यासंस्थापनेऽपि माचार्यादिपदमुद्देष्टु वा धारयितुं वेति ।। सू० १७ ॥
सूत्रम्-थेराणं थेरभूमिपत्ताणं आयरपकप्पे णामं अज्झयणे परिभट्टे सिया कप्पइ तेसिं संनिसण्णाण वासंतुयधाण वा उत्ताणयाण चा पासल्लियाण वा आयारपकप्पे नाम अज्झयणे दोच्चंपि तच्चपि पडिपुच्छित्तए वा पडिसारेत्तए वा ॥सू०१८॥